________________
आर्यासप्तशती।
२७
विवेकशून्यत्वेऽपि प्रचुरतरमन्मयविकारवत्त्वेऽप्यत्यन्तगुप्तस्थलप्राप्तिं विना खजनयोरपि न रतिस्तत्र किमु वाच्यं भादृश्याः । समीचीनपरीक्षितसंकेतस्थलं विना रतिर्नोचितेति ध्वन्यते । यद्वा मन्मथविकलतया सद्यः संभोगमपेक्षमाणं नायकं नायिका वक्तीत्सपि प्रतिभाति ॥ कश्चित्कंचिदुपदिशति
अन्धत्वमन्धसमये बघिरत्वं बधिरकाल आलम्ब्य ।
श्रीकेशवयोः प्रणयी प्रजापति भिवास्तव्यः ॥ ८॥ अन्धत्वमिति । अन्धसमये क्रीडाकाले । अवलोकनानहत्वादिति भावः । अन्धभावम् । बधिरकाले क्रीडाकालीनव्रीडाकरवाक्यकाले । 'द्यर्थैः पदैः पिशुनयेच रहस्यवस्तु' इत्यादिना रतारम्भकालेऽश्लीलपदाभिधानस्य कामशास्त्रेऽभिधानात् । बधिरभावमालम्ब्य । प्रजानां पतिः । एवं च महद्भिरप्येतादृशरीत्या स्थीयते तत्र का वार्तान्यस्येति भावः । श्रीकेशवयोः । एवं चैतादृशसंनिधिः स्नेहश्च दुष्प्राप इति ध्वन्यते । प्रणयी प्रीतिमान् । नामिर्मध्यस्तत्र वसतिमान् । केशवनाभिवसतिमत्त्वाच्छीकेशवयोः सुरतसमयेऽपि ब्रह्मणो मध्यवर्तित्वमिति भावः । यद्वा नाभौ सविधे वास्तव्यं यस्य । एवं चातिनैकव्यं ध्वन्यते । अथवा नाभिव. सतिमान् । उभयोः प्रणयी जात इत्यर्थः । यद्वोमयोर्नित्यसांनिध्यात्प्रजापतावुभयसांनिध्यम् । एतेन नाभिरवयवविशेष इत्यर्थे केशवसंबन्धवत्वेऽपि श्रीसंबन्धामाव इत्यपास्तम् । एवं च निकटवसतिमात्रं न पुरुषार्थः, किं तु प्रीतिविशिष्टनिकटवसतिरिति भावः । एवं च प्रभ्वादिसविधे प्रभ्वादिप्रीतिविशिष्टनिकटवसतिकामस्त्वमसि, तर्यनयैव रीत्या तिष्ठेति ध्वन्यते॥
मूर्खसविधकृतपाण्डित्यमनवाप्ततत्फलतया खिन्नं कश्चिदन्योक्त्या समाधत्ते__ अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्दारम् ।
यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥९॥ अयीति । कोषकारः कीटविशेषः । वनेचराणाम् । एवं च कार्याकार्यविवेकविधुरत्वं ध्वन्यते । पुरः । गुणानां तन्तूनामुद्रिणं कुरुषे । यविदार्य । एवं च पश्चात्प्रतीकारानहत्वं व्यज्यते । विचारितमुदरं यस्य सः । कुत एते गुणा निःसरन्तीति विचारणायेति भावः । त्वं नासि खलु स ते लामः । एवं च मूर्खाणामने गुणप्रकटनं न केवलमप्राप्तिकरम् , अपि त्वनर्थकरमिति ध्वन्यते॥