________________
२६
काव्यमाला । कलई वदतु । ओजः । यद्वंशात्सर्वेऽपि बिभ्यति । पक्षे प्रसादविशेषः । हीयताम् । तदपि स नायकः । सुधांशुर्भूछायामिव । एवं च त्यागानहत्वं वन्यते । पक्षे सुधांशुतुल्यः । एवं च स्पृहणीयत्वमावेद्यते । त्वां न मुञ्चति त्यक्ष्यति । यद्वा पूर्वोत्तरमेतत् ॥ . मामियं दुर्वचनैर्दुःखयतीति वादिनं नायकं प्रति नायिकासखी तवैवायमपराधो न त्वस्या इति वक्ति
अतिचापलं वितन्वनन्तर्निविशनिकामकाठिन्यः । मुखरयसि खयमेतां सद्वृत्तां शङ्करिव घण्टाम् ॥ ६ ॥ अतीति । अन्तर्निविशन्हृदयमध्ये प्रविशन् । तया खान्ते धृतोऽपीत्यर्थः । यद्वा प्रथमतः साधुत्वं प्रदर्य हृदयं प्रविश्यैतादृशाचरणं करोषीत्यत्यन्तानुचितकारित्वं तवेत्यर्थः । पक्षेऽन्तर्मध्ये । अतिचापलमन्यनायिकासंभोगादिरूपम् । पक्षे निरन्तरसंयोगविभागरूपं विस्तारयन् । एवं चाज्ञानक्षमानर्हत्वं द्योत्यते । निकाममत्यन्तं काठिन्यं कठिनत्वं यस्य सः। एवं च चापल्यसंपादनेऽपि नम्रत्वं न करोषीति दुःखदस्त्वमसीति द्योत्यते । पक्षे काठिन्यमवयवसंनिवेशविशेषः । यद्वान्तः सदनमध्ये । एवं बहिःस्थितौ चापल्यं करोषि, सदनमध्ये तु कार्कश्यमित्युभयतोऽपि दुःखदस्त्वमिति द्योत्यते । खयं त्वमेव । सत्तां सच्चरिताम् । एवं च तवासचरितं विलोक्यावश्यमेतस्या दुःखं भवतीति भावः । पक्षे समीचीनवर्तुलां लोहकीलो घण्टामिवैनां मुखरयसि । एवं च तवैवायमपराधो न तस्या इति भावः ॥ क्वचिघूनोः संकेतनिकेतनाभावादेव न संगम इति कश्चित्कंचिद्वक्ति
अग्रेषु जीर्यति परं खञ्जनयूनोर्मनोभवप्रसरः।
न पुनरनन्तर्मितनिधिनि धरामण्डले केलिः ॥ ७ ॥ अनेविति । खञ्जनयूनोः परमुत्कृष्टं मनोभवस्य । एवं च सर्वत्र बाधाकारित्वं ध्वन्यते । प्रसर आधिक्यमशेषु जीर्यति समाप्तं भवति । यद्वा पर केवलं जीर्यतीति योजना । परं तु नान्तर्गर्भितो निधिर्यत्रैतादृशे धरामण्डले केलिन । निधिमत्प्रदेश एव खजनयोः संमोग इति प्रेसिद्धिः । यद्वा सख्यत्यन्तगुप्तसंकेतं विना नैव कार्य कार्यमिति नायिकामुपदिशति । खजनयूनोरित्यादिना तिर्यग्जातिमत्तया
१. 'तसिनिधिर्भवति मैथुनमेति यसिन्' इति बृहत्संहिता (४५।१२). 'यत्राबनी खचनको विषये रतं भवेचत्र मानिधानम्' इति वसन्तराजः (१०।२५).