________________
૧.
दर्शितमित्यनेन विघ्नसूचनमिति कश्चित् । प्रकटमित्यर्थों ज्यायान् । पक्षे प्रकटितजला । निरन्तराला निर्गतावकाचा । सर्वत्र विद्यमानेत्यर्थः । एवं च विशालत्वं द्योत्यते । तेन च शोभातिशयो द्योत्यते । यद्वा कश्चिद्रक्ष्यतीति भियेतस्ततोऽवलोकनशालित्वम् । यद्वा निर्गतावकाशा । अविच्छिन्नेत्यर्थः । एवं च लोकमीतिशून्यत्वेनात्यन्तासतिरावेद्यते । पक्षे निर्गताकाशा | आकाशाद्भुवि गङ्गागमनादिति भावः । इयं दृष्टिर्भगीरथं गङ्गेव विमुखं पश्चादनवलोकनकारिणम् । अज्ञानात्कोधाद्वेति भावः । पक्षेऽग्रगमनकारित्वादिति मावः । एवं च तापापनोदिकायास्तापकरणमनुचितं तवेति ध्वन्यते । यद्वा नायकविदेशागमनकालीननायिकासखीवाक्यमेतत् । नायिकेयं परकीया ॥
अप्रकटितमानां नायिकां नायको वक्ति
अन्तः कलुषस्तम्भितरसया भृङ्गारनालयेव मम । अप्युन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥ ३५ ॥
अन्तरिति । अन्तः कलुषेणान्तरक्रोधादिना स्तम्भितोऽप्रकटितो रसः शृङ्गारादिर्यया । एवं च बाह्यक्रोधापेक्षयान्तरक्रोधस्यातिदुष्टत्वं द्योत्यते । पक्ष आभ्यन्तरपङ्कादिना स्तम्भितो निर्गमनायोग्यो रसो जलं यस्याः । भृङ्गारनाल्येव । 'भृङ्गारः कनकालुका' । त्वया वरवर्णिनि । एवं चैतादृक्कार्यकरणमनुचितं तवेति ध्वन्यते । पक्षे शोभनवर्णा । उन्मुखस्यापि । पक्ष ऊर्ध्वमुखस्यापि मम तृप्तिर्न विहिता । एवं च त्वं मम जीवनदाननिदानरूपेति ध्वन्यते ॥
कथमनेन नायकेन ममास्ति संगतिरिति लोके प्रसिद्धिरिति वादिनीं नायिकामन्योक्त्या सखी वक्ति
अयि सरले सरलतरोर्मदमुदितद्विपकपोलपालेश्च । अन्योन्यमुग्धगन्धव्यतिहारः कषणमाचष्टे ॥ ३६ ॥
अयीति । अयि सरले । एवं चैतादृशसंदेहवत्ता तव युक्तैवेति ध्वन्यते । सरलतरोः । सरलपदेन कषणयोग्यत्वं धूर्तताशून्यत्वं च द्योत्यते । मदेन दानेन मन्मथेन च मुदितो यो झभ्यां पिवतीति द्विपो गजस्तस्य कपोलपालेश्च । मदमुदित इत्यनेन जनमीतिशून्यत्वं ध्वन्यते । अन्योन्यं मुग्धस्य सुन्दरस्य गन्धस्य । पक्षे वासनायाः अनुरागस्त्रेत्यर्थः । व्यतिहारो विनिमयः । कषणम् । पक्षे योगम् । आचष्टे । एवं च परस्परानुराम एव परस्परसंबन्धं वतीति भावः ॥