________________
२४६
काव्यमाला ।
द्योत्यते । पक्षे खप्नेऽपि बुद्धेः सत्त्वाद्यथाश्रुतम् । या हृदिस्थापि । तवेति भावः । तेऽनु पश्चाग्राहिणी । परपुरुषमिति भावः । एवं च यां त्वं सर्वदा ध्यायति सा त्वयि कचित्क्षणमपि गते परपुरुषमभिलषतीति भावः । अथवा त्वद्धृदिस्थापि परपुरुषानुग्रहवतीत्यर्थः । एवं च त्वद्वृदिस्थितिकालेऽपि परपुरुषे मनः कुरुते या सा त्वत्पश्चात्किं करिष्यतीति तन्न विद्म इति व्यज्यते । यद्वा या तवानुग्रहकारिणीत्वे - माभिमता । एवं च वास्तवं तस्यास्त्वय्यनुग्रहो नास्तीत्यर्थः । पक्षे या ते । अविद्यमानेऽपि वस्तुनीति भावः । अनुग्राहिणी । अविद्यमानवस्तुविषयिणीत्यर्थः । अपिः पूर्वसमुञ्चायकः । तां दुष्टां बुद्धिमिव गुप्तव्यभिचारकारिणीम् । पक्षे झटित्यज्ञेयभ्रमत्ववतीम् । न जानासि । एवं चैतादृशदुष्ट्ययामासक्तिसंपादनं तवा - नुचितमिति व्यज्यते ॥
कश्चित्कांचिद्वक्ति—
सपरावृत्ति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि ।
हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥ ६२१॥ सपरावृत्तीति । हे अनवद्याङ्गि । एवं च स्पृहणीयत्वमावेद्यते । परावृत्तिसहितं चलन्ती । पुनः पुनः पश्चानिरीक्षमाणा चलन्तीत्यर्थः । त्वमित्यस्यानुपादानं लोकभीतिमावेदयति । पक्षे परिभ्रमणवती । मनः । ममेतिपदानुपादानेन यदीदं मनो मदीयं स्यात्तर्हि त्वत्कृतैतादृशैतदवस्था कथं मया द्रष्टुं शक्येति व्यज्यते । यद्वा मदीयत्वेन ज्ञाते मनसीतोऽप्यधिकतरपीडानया विधेयेति भीतिरावेद्यते । वात्या तृणमिव हरसि, अवलोकनेन स्वाधीनं करोषि । त्वय्यासक्तं भवतीति भावः । क्षिपसि । अनवलोकनेऽहमनया नानुगृहीत इति दुःखभाक्करोषीति भावः । तरलयसि । पुनरवलोकने मय्यनुग्रहवतीति घियेयं मयाश्वले झटिति घर्तव्येति चाञ्चल्यभाक्करोषीति भावः । भ्रमयसि । पुनरनवलोकनेऽज्ञानशालिनं करोषि । सर्वथा किंकर्तव्यतामूढं संजातमिति भावः । तोलयसि । पुनरवलोकनेन किमस्मिन्किचिद्वैर्यमस्ति न वेति ज्ञापकयथावस्थितिशालित्वाभाववत्करोषीति भावः । एवं क्षणं धैर्यशालि क्षणमधैर्यशालि संवृत्तमिति भावः । पातयसि मूच्छितं करोषि । पुनरवलोकनादिति भावः । एवं च त्वत्कटाक्षरूपसायकैरसमसायकेन भूयो भूयो जर्जरी - कृतं सन्निष्प्राणमिव संजातमिति भावः । अन्योऽपि कश्चिद्वीरः पुनः पुनर्हन्यमानो मूर्च्छितो भवतीति लौकिकम् । एवं च निरपराधिनो ममैतादृशदुःखविधाने कथं नापराध्यति भवतीति व्यज्यते ॥