________________
आर्यासप्तशती।
२४५ नायिकासखी नायकं वक्ति
सा बहुलक्षणभावा स्त्रीमानं वेति कितव तव तुल्यम् ।
कोटिर्वराटिका वा घृतविधेः सर्व एव पणः ॥ ६२२ ॥ सेति । हे कितव । एवं च तवैतादृशबुद्धिशालित्वमुचितमिति व्यज्यते । तव बहूनि यानि लक्षणान्यस्थूलाधरत्वादीनि तेषां भावः सत्ता यस्यां सा। यद्वा बहुला ये क्षणा उत्सवास्ते येभ्य एतादृशा भावा विलासा यस्यां सा । एवं चेतरनायिकातोऽधिकत्वमावेद्यते । पक्षे बहूनां समप्राणां लक्षणानां भाव आलोकनं चित्ताभिप्रायो वा यस्यां सा । एतादृशी सा नायिका स्त्रीमात्रं वेति तव । एवं चान्यस्य नैतादृशी मतिरिति भावः । तुल्यम् । मात्रपदेन लक्षणादिसत्त्वविरह आवेद्यते । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-बूतविधिसंबन्धिकोटिः कोटिसंख्याकं वस्तु कपर्दिका वा सर्व एव पणः । यद्वा द्यूतं विधिः कर्तव्यार्थो यस्य स तस्य । विधिपदमवश्यकर्तव्यत्वमावेदयति । एवं च यथा द्यूतसतस्य कोटिसंख्याकं वसु समधिकं वराटिका न्यूनेति ज्ञानशून्यत्वं तथा धूर्तस्य तव विशेष. ज्ञानशून्यत्वमिति भावः । एवं च गुणानभिज्ञतया त्वया तां मत्सखीं विहायान्यत्रा. सक्तिः क्रियत इति व्यज्यते ॥ सखी नायकं वक्ति
सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी ।
शारीव कितव भवतानुकूलिता पातिताक्षेण ॥ ६२३ ॥ सेति । हे कितव, पातिताक्षेण कृतकटाक्षेण । पक्षेऽक्षः पाशः । भवतानुकूलिता खाधीनीकृता । पक्षे संचरणक्षमा कृता । विरहानलखिन्ना सा वराकी । एवं च सरलत्वमावेद्यते । चतुरनगुटिकेव मृत्वा मृत्वापि जीवति । एवं च तस्यास्त्वकटाक्षमात्रेण जीवनम् , अन्यथा मरणमेवेति भावः । एवं च या हि खदर्शनादिनानोपायैः खवशतामानीता तस्यां पुनरीदृशौदासीन्यसंपादनं कथमनौचिती ते नावहतीति व्यज्यते । तेन च सा त्वयानुप्रास्येति । पक्षे मरणं क्रीडाक्षमत्वम् । जीवनं तत्समत्वम् ॥ नायिका सखीं वक्ति
स्पर्शादेव खेदं जनयति न च मे ददाति निद्रातुम् ।
प्रिय इव जघनांशुकमपि न निदाघः क्षणमपि क्षमते॥१२॥ स्पर्शादिति । निदाघः प्रिय इव । एवं च निवारणानहत्वं ध्वन्यते । स्पर्श