________________
आर्यासप्तशती।
२४९ दीयमदनविकार एमिति इति धीहेतुः । एवं चैतादृशप्रौढापरिणय एव सम्यति व्यज्यत इति कश्चित्कंचिद्वतीत्यप्यर्थः ॥ समीचीनानामप्यसमीचीनसंसर्गादन्यथाभावो भवतीति कश्चित्कंचिद्वति
सुरसप्रवर्तमानः संघातोऽयं समानवृत्तानाम् । __एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ।। ६१८॥ सुरसेति । समीचीनरसैः प्रकर्षेण वर्तमानः । पक्षे समीचीनरसवान् । मानाचरणवताम् । पक्षे एकजातीयच्छन्दसाम् । अयं समुदायः काव्यस्य सर्ग वान्याहशाचरणप्रवणैः । पक्षे विजातीयच्छन्दोभिः। एत्यैव । एवकारेण बहुकालावस्थितौ किं भविष्यतीति न विद्म इति व्यज्यते । भडरितः कुटिलीकृतः । क्षे समापितः । एवं चासत्संगतिरनुचितेति ध्वन्यते । यद्वा सर्वेऽप्येते समीचीना त्सहायपक्ष एव स्थिताः, परमधुनैव कश्चिद्दुष्टैरागत्यान्यथाभावं नीता इति कश्चिकंचिद्वति ॥ कश्चित्सखायं वति
सर्वासामेव सखे पय इव सुरतं मनोहारि ।
तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥ ६१९ ॥ सर्वासामिति । हे सखे, सर्वासामेव । स्त्रीत्वसाधारणधर्मवत्तयेति भावः । पुरतं पय इव दुग्धमिव समीचीनम् । आवर्तितं दुग्धमिव तस्य एव पुनः पुनरात्तौ सुरतं मधुरम् । एवं च सर्वकामिनीनां सुरतं सममेव परमिदमधिकं तस्या पदुत्तरोत्तरसुरते माधुर्यमिति भावः । एवं चान्यासां प्रथमत एव माधुर्य न पुनरुत्तरोत्तरत इति व्यज्यते । तेन च तत्तुल्या नान्या नायिकेति । यद्वा सर्वासामेव पुनः पुनरावृत्तौ सुरतं जलमिव मनोहारि पुनः पुनरावृत्तौ तस्या एव सुरतं दुग्धमिव मधुरम् । एवं च यथा जलदुग्धयोर्महदन्तरं तथान्यासां तस्याश्चोत्तरोतरसुरत इति व्यज्यते । प्रथमव्याख्याने पयःपदस्थाने दुग्धपदं दुग्धपदस्थाने यःपदं वेत्युभयत्रैकपददानमुचितम् ॥ कश्चित्कंचिदकि
खानेऽपि यां न मुञ्चसि या तेऽनुपाहिणी हृदिस्थापि ।
दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणी वेत्सि ।। ६२०॥ खप्नेऽपीति । यो खप्नेऽपि । अपिनेतरकालसंग्रहः । एवं चासक्त्यविशयो