________________
आर्यासप्तशती। कश्चित्कंचिद्वति
बाष्पाकुलं प्रलपतोहिणि निवर्तख कान्त गच्छेति ।
यातं दंपत्योर्दिनमनुगमनावधि सरस्तीरे ।। ५२८ ॥ बाष्पेति । वाष्पव्याकुलं यथा भवति तथा 'गेहिनि, निवर्तख', 'कान्त, गच्छ इति प्रकृष्टालापवतोः। यद्वा परावृत्त्यायकरणेनानर्थकतया वृथा वदतोरित्यर्थः । 'प्रलापोऽनर्थकं वचः' इत्यभिधानात् । दंपलोरनुगमनस्यावधिभूतसरस्वीरे दिन यातं व्यतीतम् । एवं च प्रेम्णि सति न किंचिदपरं स्फुरतीति ध्वन्यते ॥ प्रतिज्ञापुरःसरविपरीतरतकारिणी नायिका नायको वकि
वक्षःप्रणयिनि सान्द्रश्वासे वामात्रसुभटि घनघमें।
सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥ ५२९ ॥ वक्ष इति । वक्षसि । अर्थात्वस्य । प्रणयः प्रीतिर्यस्याः। खापार्यमिति भावः । दीर्घश्वासशालिनि । श्रमवशादिति भावः । वचनमात्रशूरे । मात्रपदेन सामर्थ्याभावोऽभिव्यज्यते । बहुतरप्रखेदवति, शोभनगात्रि, ललाटे। अर्थान्मम । संस्थापित ललाटिके, तिष्ठ तूष्णीं भव । यतो विजितासि । सर्वैः संबोधनपदैनिःसहत्वप्रतिपादनाद्विजयस्य व्यङ्गबत्वेऽपि विजितासीति पदोपादानं न चमत्कारकारीसाभाति । राधा कृष्णेऽत्यन्तमासक्ता जातेति काचित्कांचिद्वति
विचरति परितः कृष्णे राधायां रागचपलनयनायाम् ।
दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥ ५३०॥ विचरतीति । कृष्णे समन्ताद्विचरति सति, अनुरागचञ्चलनेत्रायां राधायां दशदिक्षु यो वेस्खन विशुद्धम् । दशदिश्वपि लक्ष्यवेधकारिणमित्यर्थः । बाणं मदनो विदधाति । एवं च सर्वत्र राधाकटाक्षविषयः श्रीकृष्णोऽभूदिति ध्वन्यते ॥ काचित्कांचिद्वकि
वीक्ष्यैव वेत्ति पथिकः पीवरबहुवायस निजावासम् ।
सौन्दर्यकनिधेरपि दयितायाश्चरितमविचलितम् ॥५३१॥ वीक्ष्यैवेति । पथिकः पुष्टबहुकाकम् । नायकागमनशकुनदर्शनार्थ दत्तदभ्यो.
१. पवर्गीयकारवज्योचितेयमार्या प्रमादेन दन्त्योट्यवकारवज्याषामादर्शपुस्तके लिलिवेति माति.