________________
२१०
काव्यमाला 1
कायाः । गमनागमर्नर्वस्त्रप्रान्तमिव मम सख्याश्चित्तं चाञ्चल्यं प्रापितम् । एवं च त्वयैव प्रथमासक्तिमुत्पाद्येदानीमुदासीनवच्छेथिल्यं क्रियत इत्ययुक्तं तवेत्यतस्त्वरख तद्दर्शनायेति ध्वन्यते । यद्वा व्यजनस्येव तापहारिणः समीपे । नायिकाया इति भावः । भवतो गतागतैः । एवं च लोकभीत्या कटाक्षवीक्षणाभावो व्यज्यते । सख्या अश्चलमिव मम चेतश्चञ्चलतां प्रापितम् । एवं च मान्मथव्यथापनोदकभवदीयसविधगतागतसंजातानुरागजनित हेलावशात्कम्परूपसात्त्विकभावोदयवशाद्वा यथा सख्याश्चेलावले चञ्चलता तथा मन्मनसि कया रीत्या कुत्र वाऽनयोः संगमः संपाद्नीय इति चाञ्चल्यमुज्जृम्भत इति भावः ॥
नायको नायिकां वक्ति
वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ।
अन्तःसलिला सरिदिव यन्निवससि बहिरदृश्यापि ॥ ५२५ ॥ वितरन्तीति । हे कृशाङ्गि, अन्तः रसं प्रीतिं वितरन्ती ममार्द्रभावं तनोषि । यद्यस्मादन्तर्जला नदीव बहिरदृश्यापि निवससि । मम हृदीति भावः । एवं च बहिस्त्वद्विषयकप्रेमाभावेऽप्यान्तरं प्रेम ममातितरामस्ति त्वद्विषयकमित्यावेद्यते ॥
चिरतरकृतचाटुवचनादिरचनेऽप्यवधीरणात्कृतकखापं नायकमनुतापवशादानेतुं प्रेषिता दूती नायिकां वक्ति
विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी ।
लमते कुतः प्रबोषं स जागरित्वैव निद्राणः ॥ ५२६ ॥
विहितेति । कृतानेकसान्त्वनोऽपि मानोचतया त्वयावगणितोऽभिमानशाली । एवं च प्रसादनासंपादनाविरामौचित्यमावेद्यते । जामदेव निद्रावान्प्रबोधं कुतो लभते । न कुतोऽपीत्यर्थः । एवं चैतादृशनायकावधीरणकरणमनुचितमिति ध्वन्यते ॥
काचित्कांचिद्वति
व्रीडाविमुखीं वीतखेहामाशय काकुवाब्यधुरे ।
प्रेमाईसापराधां दिशति दृशं वल्लमे बाला ॥ ५२७ ॥
व्रीडेति । लज्जया परावृत्तबदनाम् । अर्थाचायिकाम् । गतस्नेहामाशा चाटुवचनमधुरे नायके बाला । एवं चाशत्वं व्यज्यते । प्रेम्णाद्रमपराधेन सहितां दृष्टिं करोति । एवं स्त्रीणामेतादृशी गतिरिति भावः ॥
: