________________
आर्यास्तराती। उपपतिरपसार्यतामिति दूती कचिङ्गायन्तरेण पति
न्यारोष मानिन्यास्तमो दिवः कासरं कलमभूमेः ।
बद्धमलिं च नलिन्याः प्रभातसंध्याफ्सारयति ॥ ५२१ ॥ व्यारोषमिति । मानवत्या विशिष्टकोपम्, दिवोऽन्धकारम् , कलमभूमेः कासरं महिषम् , नलिन्या निरुद्ध भ्रमरं च प्रातःकालीनसंध्यापसारयति । एवं च प्रातःकालः संवृत्तः, अतो यया रीत्यानीतोऽयं तयैव रीत्या नेय इति ध्वन्यते। संध्यापदेन यथा योगसंपादनसामर्थ्य तथापसारणसामर्थ्यमप्यपेक्षितमिति ध्वन्यते ॥ नायिकासखी नायकं वत्ति
वक्षसि विजृम्ममाणे खनमिन्नं त्रुटति कचुकं तस्याः ।
पूर्वदयितानुरागस्तव हृदि न मनागपि त्रुटति ॥ ५२२ ॥ वक्षसीति । वक्षसि विजृम्भमाणे खनौनत्यशालिनि स्तनमिचं कूसकं तस्यानुटति । तव हृदि प्रथमप्रियाप्रीतिरीषदपि न त्रुटतीति । एवं चैतस्यास्वारप्योकेऽपि तव नासकिः, अतस्त्वत्सदृशो न कोऽपि जड इति ध्वन्यते ॥ नायिकासखी नायकं वधि
व्यक्तिमवेक्ष्य तदन्यां तस्यामेवेति विदितमधुना तु ।
ह→हरिमुखमिव त्वामुभयोः साधारणं वेनि ॥ ५२३ ।। व्यक्तिमिति । तदन्यां नायिकामिक व्यक्तिमवेक्ष्य । तस्यामेव त्वमासक इति शेषः । इति ज्ञातम् । एवं च पूर्व सापीयमपि मया दृष्टैव तदानीं तवैतस्थामनादरादिना तस्यामेव प्रीतिरभूदिति विज्ञातमिति भावः । अधुना तु गृहद्वारसंबन्धि सिंहमुखमिव त्वामुभयोः साधारणं जानामि । एवं चेदानीं त्वमुभयत्र समबुद्धिरिसस्थिरप्रकृतिकत्वं नायके ध्वन्यते। 'अवीक्ष्य' इति पाठे तदन्यां प्रथमामिना नायिकामवीक्ष्य । तस्यामेवासक इति शेषः । विदितम् । अधुना तु हर्म्यहरिमुखमिवोभयोः साधारणं वेभि । एवं यावत्पर्यन्तमुभयोर्न दर्शनं संवृत्तं तावदन्याक्षी बुद्धिः स्थितेति भावः ॥
नायिकासली नायकं बषि- बजनस्येक समीपे गतागतेखापहारिणो भक्तः ।
अञ्चलविन चावलतां मम सख्याः प्रापितं चेतः ॥ ५९॥ न्यजनस्येति । व्यजनस्पेव संतापापनोदकाल भवतः समीपे । अर्थात
१४ आ० स०