SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। दिना मां जीवयसीति ध्वन्यते। यद्वा है मदिराक्षि, तवाधरे समेतो लमः खण्ड इदमधुना व्यकम् । निश्चितमित्यर्थः । यद्वसुधैकसारं न । अपि तु त्रिभुवनसारमित्यर्थः । तत्किमपि लोमिनि नापश्यम् । एवं चेदानींतनाघरचुम्बनेनापरमाधुर्य विज्ञातं परं तु त्रिभुवनसारभूतसुरतेन किं मां न सुखयसीति व्यज्यते। अथ च त्वत्सुफैकसारं किमपि तत्र नादाक्षम् । अपि तु सर्व दृष्टवानस्सीत्यर्थः । एवं च भदिरामाक्षिकशर्करासुघाद्राक्षामधुरवस्तूनां त्वयि सत्त्वेऽपि लोभवशात्किंचिददासि किंचिन ददासीत्यनुचितमित्यावेधते ॥ नायकः सखायं वक्ति बालाविलासबन्धानप्रमवन्मनसि चिन्तयन्पूर्वम् । संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥ ५१९ ॥ बालेति । हे वयस्य, अप्रभवनसमर्थः । प्राथमिककान्ताधीनत्वादिति भावः ।। बालाया विलासबन्धान्पूर्व चिन्तयन्स्थितः। प्राथमिककान्ताधीनेन मया कथमियं विलासविशेषशालिनी भोकव्येति चिन्तावान्संजात इति भावः । अधुना तु संमानरहिताम् । द्वितीयकामिन्याः प्राबल्यादिति भावः । गृहिणीमेवानुशोचामि । गा थीमित्यनेन मानाईत्वेऽपि तदकरणेनानौचिती द्योत्सते। एवं च यस्या भयेन पूर्व | किमपि कर्तुमशकस्तस्या इदानीमेताहसी गतिः संवृत्तेति धियेति भावः । एवं च पूर्वमिदानीमपि न मां चिन्ता परित्यजतीति ध्वन्यते । यद्वा बालाया अप्रगल्मे मनसि विलासबन्धाश्चिन्तयनहं पूर्व प्रतिष्ठावर्जितां गृहिणीमेवानुशोचामि । एवं चाप्रगल्भवयस्यनयैतादृशविलासैहृतचित्तः संवृत्तः, किं पुनरप्रेऽनया विधेयमिति भावः । पूर्व गृहिणीमेवानुशोचामीत्यनेन बालाविलासासचिन्तनया खात्मनः परतब्रतया शोच्यत्वेऽपि मदीयेतादृशावस्थामालोक्य गृहिण्याः समधिकदुःखोद्रेको भविवेति तद्विषय एवानुशोचनं मह्यमापतितमिति व्यज्यते ॥ मन्मथव्यथातोऽन्यद्ययाजातं नातिदुःखदमिति कश्चिदकि वीजयतोरन्योन्यं यूनोवियुतानि सकलगात्राणि । सन्मैत्रीव मोणी परं निदाषेऽपि न विघटिता ॥ ५२० ॥ , पीजयतोरिति । परस्परं वीजयतोनोः समप्रावयवा विमागवन्तः संवृत्ताः। परं केवलं श्रोणी सन्मैत्रीव निदाघकालेऽपि । अपिनाकश्यविघटनाहत्वं द्योत्यते । म वियुका। निदाघदुःखागणनादिति भावः ।।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy