________________
१५९
आर्यासप्तशती। श्लाघ्यम् । तस्य केलिरूपसङ्कामे तल्पीकृतवनप्रान्तस्येव । समरपदेनातिदुःसहत्वं रत आवेद्यते । एवं च शय्यादिविरहवत्यपि देशेऽत्यन्तसाहसेन चिरतरसुरतसुखसंपादनेन यः प्रियत्वात्परितोषितस्तदीयैतादृशदुश्चेष्टितस्यातिदुःसहतया "विरमति 'कथनं विना न खेदः' इत्यादिवचनात्कस्यचित्कथनानहत्वेऽपि खस्यवैतादृशाविचारितकार्यकारितयातिमावहतया कथनीयत्वेन तद्भराद्विदीर्णतापि समुचिता न पुनरन्यत्र तत्कयनमिति ध्वन्यते । तेन चैतादृशप्रियानुचिताचरणस्य कथने खस्यैव लज्जाजनकत्वमिति । यद्वा येनैतादृशसंभोगसुखमुत्पादितं तदीयैतादृशोदासीन्ये भरणमेव वरं न पून(त्यादिप्रेषणं मानादिधारणं वेति व्यज्यते । अपिरवधारणार्थः । 'प्रियदुर्नयेनात्यन्तं दुःखं भवतीति भावः' इति ऋजवः ॥
कश्चिदन्योक्त्या कस्यचित्कर्तव्यतामालोक्य खयमपि तथा कर्तुमुद्यतं कंचन वक्ति
पवनोपनीतसौरभदूरोदकपूरपद्मिनीलब्धः ।।
अपरीक्षितखपक्षो गन्ता हन्तापदं मधुपः ॥ ३७८॥ पवनेति । समीरणाहृतसौरभा, उदकपूरवर्तिनी या पद्मिनी तस्यामासकोऽविचारितखपक्षबलो मधुपः । हन्त इति खेदे । आपदं गन्ता । पवनपदेन चञ्चलखभावेन केनचिदेतस्याः कीर्तिः कृतेति व्यज्यते । दूरोदकपूरेत्यनेन प्राप्तावपि काठिन्यमावेद्यते। अपरीक्षितेत्यनेन यथाकथंचित्खसहायवचनमात्रादेव नोद्योगः कर्तव्य इति ध्वन्यते । आपदमित्येकत्वमविवक्षितम् । मधुप इत्यनेनाविवेकित्वं ध्वन्यते। एवं यथाकथंचित्कस्यचिन्मुखान्नायिकागुणश्रवणमात्रेण दुष्प्रापायां तस्यामासतिर्यद्य. नेन क्रियते तद्यनेनावश्यं क्लेशाः प्राप्या एवेति भावः । एवं च त्वयैतागनुचितं नाचरणीयमिति व्यज्यते ॥
प्रेमवशानायके लघुतामङ्गीकुर्वत्यपि स्वयं नावगणना विधेयेति सखी नायिका भन्यन्तरेण शिक्षयति
प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुचकलशा ।
गोवर्धनगिरिगुरुतां मुग्धवधूनिभृतमुपहसति ॥ ३७९ ॥ प्रेमलघूछतेति । प्रेम्णा । नायिकाविषयकेणेत्यर्थः । लघूकृतः । वास्तवतया तस्य चतुर्दशभुवनाधारतयातिगुरुत्वादिति भावः । एवं च प्रियाप्रणयात्कि किन क्रियत इति ध्वन्यते। यः केशवस्तस्य वक्षसि धारणे विपुलपुलको कुचकलशौ