________________
१५८
:काव्यमाला ।
एवं च काचित्तवान्तःकरणेऽस्ति ययान्यत्र चित्तं न ददासीति व्यज्यते । भूमावन्तर एकस्मिन्कीले सत्यन्यकीलस्य न तत्र प्रवेश इति लौकिकम् । यद्वा कथमन्याङ्गनालम्पटस्त्वमसीति वादिनी नायिकासखीं नायको वक्ति । तुझेत्यादिनान्याजव्यतिरेको ध्वन्यते । एवं च यद्यपि न मया मुखतस्तथा चाटुवचनादि विधीयते परंतु मम हृदयमियमेवाधिवसति न काचिदन्या हृदयविषयापीति व्यज्यते । अथवा नायिकोक्तिरियम् ॥ कथमस्मासु श्वभून नियतीति वादिनमनभिज्ञनायकं नायिकासखी वक्ति
प्रातर्निद्राति यथा यथात्मा लुलितनिःसहैरङ्गैः ।
जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ॥ ३७५ ॥ प्रातरिति । यथा यथा । लुलितानि ग्लानान्यत एव निःसहानि । सालस्यानीत्यर्थः । एवंविधैरङ्गैः प्रातरात्मजा निद्राति, मुदितमनाः श्वश्रूर्जामातरि तथा तथा सादरा भवति । लुलितनिःसहैरित्यनेन रतातिशयशालित्वमावेद्यते । आत्मजेसनेन तत्सुखवत्त्वेन तस्याः सुखवत्त्वमिति ध्वन्यते । एवं च त्वयाद्य रात्रौ तथा रतातिशयो विधेयो यथेयं मत्सखी प्रातरत्यन्तनिःसहाणतया खापं करिष्यतीति व्यजते ॥ नायिका सखीं वक्ति
प्रणयचलितोऽपि सकपटकोपकटाक्षर्मयाहितस्तम्भः ।
त्रासतरलो गृहीतः सहासरमसं प्रियः कण्ठे ॥ ३७६ ॥ प्रणयेति । हे सखि, प्रणयात्प्रीतेश्चलितोऽपि, प्रणयेन वा चलितः । सकपटा ये कोपकटाक्षास्तैराहितस्तम्भः संपादितस्थैर्यः । त्रासेन तरलः । मत्कृतकोपकटाक्षादिति भावः । प्रियो मया सहासरभसं कण्ठे कृतः । एवं च नायकेऽ. विसरलत्वमावेद्यते ॥
काचिन्नायका कस्मिंश्चिदासत्ता तदीयान्याङ्गनासफि विज्ञायात्यन्तदुःखिता खहदयं प्रति वक्ति
प्रियदुनयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाघ्यम् ।
तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव ॥ ३७७॥ • प्रियेति । हे हृदय । एवं चोपदेशयोग्यत्वं ध्वन्यते । प्रियस्य दुर्नयेन । एवं चातिदुःखवत्वमावेयते । यदि स्फुटसि विदीर्णतामाप्नोषि तर्हि तव स्फुटनमपि