________________
आर्यासप्तशती।
१५७ काचित्पथिकं वक्ति
पथिक कथं चपलोज्ज्वलमम्बुदजलबिन्दुनिवहमविषयम् ।
मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे ॥ ३७२ ॥ पथिकेति । हे पथिक । एवं च वसत्यभाववत्त्वमावेद्यते । चपलभिर्विद्युद्भिरुज्ज्वलम् । पक्षे चपलावदुज्वलम् । अविषयम् । उद्दीपकत्वादिति भावः । पक्ष उष्णत्वादिति भावः । मेघजलसमुदायबिन्दुसमुदायम् । न तु कतिपयजलबिन्दवः। शंकरबाणानलसंतापितम् । अत्र शिवपदं प्रकृताननुगुणम् । मयनामकदैत्यनगरकनकद्रवमिव कथं सहसे । एवं च कथं वृष्टिमध्य एव स्थीयते कुतो नागम्यते वृष्टिबाधोपशमनस्थल इति भावः । एवं चैतादृशोद्दीपनविभाववति समये कथमेकाकितया स्थातुं शक्यम् , अतो मत्सविधमागत्यैनं समयमतिवाहयेति व्यज्यते ॥ काचित्कांचिद्वदति
पथिकं श्रमेण सुप्तं दरतरला तरुणि सुमधुरच्छाया ।
व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा ॥ ३७३ ॥ पथिकमिति । हे तरुणि । ईषच्चञ्चला । सुष्टु मधुरा छाया यस्याः । व्याल. म्बमाना वेणिर्यस्याः । विपरीतरतसंविधानादिति भावः । सारोहा सशिफा । 'शाखा शिफावरोहः स्यात्' इत्यमरः । पक्ष आरोहणमारोहः । शाखेव सुखयसि । मदनानलतापनिवारकत्वादिति भावः । श्रमेण सुप्तं पथिकम् । पथिकपदेन सुखसंपा. दनयोग्यत्वं ध्वन्यते । शाखापि किंचिच्चञ्चला शीतलच्छाया लम्बमानजटा श्रमसुप्तपथिकसुखहेतुर्भवति । एवं चानेन सह त्वया विपरीतरतं विहितमिति ध्वन्यते । यद्वा पथिकं सुखयसीति सुखयिष्यसीति प्रश्नः । पथिकमित्यनेनातिकामुकत्वं तत्सुखदानेन पुण्यवत्त्वमन्यापरिचेयत्वं च व्यज्यते ॥ निगूढमन्याङ्गनासक्तचित्तं नायक नायिकासखी वक्ति
प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः ।
या लुप्तकीलभावं याता हृदि बहिरदृश्यापि ॥ ३७४ ॥ प्रददातीति । या तव हृदि बहिरदृश्यापि लुप्तकीलधर्म याता सा तुङ्गपीनजघनोरूरपरासां प्रवेशमपि न प्रददाति । लुप्तकीलभावे बहिरदृश्यत्वं हेतुः । अन्यासां प्रवेशाप्रदाने तुङ्गपीनजघनोरुत्वं हेतुः । अपिनावस्थितिव्यवच्छेदः ।