________________
१५६
काव्यमाला |
भावः । स्थितं मुख्यं रत्नं यस्मिन्सः फर्णीव काञ्चीगुणः स्फुरति । तवेति भावः । फणिपदेन स्पर्शायोग्यत्वं ध्वन्यते । एवं च तथाशयितरत संविधानजन्यालसतया निकटस्थकाञ्चीगुणोऽपि स्प्रष्टुं न शक्यते त्वयेत्यतो मामाज्ञापयसि तदानयनार्थमित्यावेद्यते ॥
अन्याङ्गनासक्त्येतस्ततः परिभ्रमन्तं नायकं नायिकान्योक्त्या वक्ति
प्रावृषि शैलश्रेणीनितम्बमुज्झन्दिगन्तरे भ्रमसि ।
चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥ ३७० ॥ प्रावृषीति । वर्षासमये । एवं च बहिर्गमनानर्हत्वं व्यज्यते । पर्वतश्रेणीनितम्बम् । ‘नितम्बः कटकोऽस्त्रियाम्' । अथ च खनितम्बिनीस्तननितम्बम् । उज्झंस्त्यजन् । दिगन्तरे । इतस्तत इत्यर्थः । भ्रमसि । चपला विद्युत्सान्तरे मध्ये यस्य । अथ च चपलेतस्ततो गमनस्वभावा पराङ्गनान्तरे चित्ते यस्य । यद्वा चञ्चलखभाव चलचित्त । घन तव किं वचनीयम् । वाच्यमित्यर्थः । यतः पवनवश्योऽसि वाय्वधीनोऽसि । अथ च वातूलोऽसि । पिशाच इति यावत् । एवं च यतो यतो वायुना नीयसे तत्र तत्र गच्छसीति न तवापराध इति व्यजते । एवं च सुन्दरीं नवयौवनलालसां मादृशीं विहायेतस्ततो व्यभिचरणशीलामन्तः करणे विधाय पिशाचवदितस्ततो भ्रमसि तत्र न तवापराधः किं तु मौढ्यस्येति व्यज्यते ॥ सर्वदा मानवत्तयैव त्वया स्थीयत इदमनुचितमिति भन्नयन्तरेण सखी नायिकां यति -
1
प्रतिदिवसक्षीणदशस्तवैष वसनाञ्चलोऽतिकरकृष्टः ।
1
निजनायकमतिकृपणं कथयति कुग्राम इव विरलः || ३७१॥ प्रतीति । प्रतिदिनं क्षीणा दशा प्रान्तभागो यस्य । पक्षे क्षीणावस्थः । अत्यन्तं करेण हस्तेनाकृष्टः । पक्षेऽत्यन्तराजदण्डपीडितः । विरलः शिथिलतन्तुसंयोगवान् । पक्षे खल्पजनवसतिः । तव एष वसनाचलो निजखामिनं कुग्राम इव कृपणम् । वसनान्तरग्रहणासामर्थ्यादिति भावः । पक्षे द्रव्यलोभकरणेनेति भावः । कथयति । एवं चैतादृशमानसंपादनेन नायकस्य वारं वारं प्रार्थनादिसंपादनावगणनेन नायं नायिकासुखप्रदो यतः सर्वदेयं क्लेशवत्येव लक्ष्यत इत्ययशस्तदीयं भवति । तदिगं स्वस्यैवानौचितीमाविष्करोति, अतो नैतादृशं विधेयमित्यावेद्यते ॥