________________
आर्यासप्तशती।
१५५ पतितेंऽशुके स्तनार्पितहस्तां तां निबिडजघनपिहितोरुम् ।
रदपदविकलितफूत्कृतिशतधुतदीपां मनः सरति ॥ ३६८ ॥ पतितेति । अंशुके पतिते सति स्तनस्थापितहस्वाम् । अत्यन्तं जघनाच्छादितोरुम् । ओष्ठयोर्विकलतामाप्ता या फूत्कृतिः । अत एव तच्छतेन कम्पितः, न तु निर्वापितः, दीपो यया ताम् । लज्जाभयवशादिति भावः । तां पूर्वानुभूतां नायिकां मनः स्मरति । एवमेव किमिति स्थितोऽसीति वादिनं कंचित्प्रति कस्यचिदुक्तिरियम् ॥
संकेतितक्रीडाचलमौलिकुञ्ज नायकः समधिवसतीत्यतस्त्वरया तत्र गन्तव्यमिति ज्ञापयितुमन्येषां च गमने भीतिमुपदर्शयन्ती दूती नायिका वक्ति
परितः स्फुरितमहौषधिमणिनिकरे केलितल्प इव शैले।
काचीगुण इव पतितः स्थितैकरत्नः फणी स्फुरति ॥ ३६९ ।। परित इति । हे सखि, केलिशयनीय इव समन्तात्सप्रकाशौषधिमणिसमूहवति शैले। पक्षे महौषधितुल्यमणिसमूहवतीत्यर्थः । काञ्चीसूत्रमिव पतितश्चासौ स्थितैकरत्नश्च फणी स्फुरति । एवं च दीपादिस्थानाभिषिक्तौषधिसप्रकाशे विकिधपल्लवादिमृदुशय्याशालिनि क्रीडाशैले निरन्तरजघनसङ्गयोग्यश्चिरागमनतया त्वदनागमनेन सालस इव सकलनायकशिरोरत्नरूपः प्रबलतरतयान्यजननिर्भयः खिड्गविद्याविशारदो नायकः समधिवसतीत्यतस्त्वरख गमनायेति ध्वन्यते । महत्तरसर्पाक्रान्ततया शैलस्य गमनानर्हत्वमन्येषामावेद्यते । केलितल्पसादृश्येन नायिकायाः सुखगमनयोग्यत्वं ध्वन्यते । काञ्चीगुणसादृश्येन निरन्तरजघनसंगतिशालित्वप्रतिपादनेनातिमदनशालित्वं व्यज्यते। पतित इत्यनेन दैववशाल्लब्ध इति ध्वन्यते । यद्वा सखी नायिका वक्ति-समन्तान्महौषधिमणिसमुदायवति । पक्ष प्रकाशातिशयशालिमणिनिकरवति । निर्भरतातिशयविधानान्मणिमुक्तादिनीवाद्याभरणभ्रंशादिति भावः । शैल इंव केलितल्पे । शैलसमताप्रतिपादनेनातिदृढत्वं तल्प आवेद्यते । तेन चैतादृशरतविमर्दसहनयोग्यत्वम् । पतितः । प्रसुप्त इति यावत् । स्थितमेकरनं यस्मिन्सः । फणायामिति भावः । पक्षे पतितः । त्रुटितत्वादिति
१. पतितेलाचार्या केषुचिपुस्तकेषु नास्ति.