________________
१५४
काव्यमाला।
बते। ईषत्रपामपाकृत्येत्यपि योजना। चन्द्रपदेन दर्शनीयत्वमावेद्यते। तत्फलमाह-जायया जित इति ख्यातो जनवादो मे यशो भवतु । एवं च त्वदीयतादृशसौन्दर्योत्कर्ष दृष्वैतादृशनायिकाजितत्वमसन्तपुण्योद्रेकलभ्यमिति यशसे भवविति भावः । एवं च त्वमेतादृशसौन्दर्यशालिनीति चन्यते । एवं चैतादृशे मयि कोपकरणमनुचितमित्यावेद्यते ॥
यद्यपि घटनाविधाननिपुणा दूती, संतापापनोदको नायकश्च वर्वर्ति, तथापि निर्बन्धशालितयास्माकं न किंचिदपि फलमिति काचिद्वक्ति
प्रसरतु शरत्रियामा जगन्ति धवलयतु धाम तुहिनांशोः।
पारचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥ ३६६ ॥ प्रसरत्विति । शरत्कालीना रात्रिः प्रसस्तु । तुहिनांशोर्धाम जगन्ति धवल. यतु । संतापजन्यमालिन्यनिवारकतयेति भावः पारस्थचकोरिकाणाम् । चकोरीपदेन तदेकाधीनजीवनवत्त्वमावेद्यते । कणिकातो न्यूनोऽपि न विशेषः । कथमनयातिविलम्बितमिति वादिनं नायक नायिकासखी समाधत्ते। प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषे तु ।
वक्ष्यन्ति साङ्गरागाः पथि तरवस्तव समाधानम् ॥ ३६७ ॥ • प्रथमेति । हे प्रथमागत । एवं च कोपौचित्यमिति व्यज्यते । उत्कण्ठासहितेयम् । अत एव चिरकालं चलिता । खसदनादिति भावः । ननु विलम्बः किमित्यत आह-विलम्बदोषे तु । दोषपदेन करणानहत्वं ध्वन्यते । समाधान सहागरागेण वर्तन्त एतादृशा मार्गस्थतरवो वक्ष्यन्ति । एवं च किमर्थमत्रास्माभिः समाधानं विधेयमिति भावः । पथिपदमवश्यंभाविदर्शनवत्तामावेदयति । एवं च त्वद्विरहाद्रान्तिवशात्त्वद्रमेण प्रतिपदपद्धतिपादपालिङ्गनेन विलम्बः संवृत्त इति व्यज्यते । तेन च क्षणमपि त्वद्विरहमसहमानेयमिति । 'विलम्बदोषेण' इति पाठे संकेते बहुकालं नायकं प्रतीक्ष्य खगृहं प्रति गतायां नायिकायां समागतनायकं प्रति प्रथममागता नायिकासखी वक्ति । यतः सोत्कण्ठेयं नायिका । विलम्बदोषेण । तवेति भावः । पथि । खगृहस्येति भावः । अचिरम् । अधुनेत्यर्थः । चलिता 1 ननु मिथ्यैव त्वं वदसीत्यत्राह-तव समाधानं साङ्गरागाः । खगमनज्ञानाय चिह्नवन्तः कृता इत्यर्थः । तरवो वक्ष्यन्ति । एवं च न तस्सा अपराध इति भावः । नकारपाठे पदच्छेदेन काका व्याख्येयमाद्यव्याख्यावत् ॥