SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। द्धोऽपि साम्येनाथ विवक्षितः। अङ्गिन्यङ्गत्वमाप्ती यौ तौ न दुध्यै परस्परम् ।। इत्युक्त्या यथा तथाविधान्धकवपुश्चमत्करोति तथैवंविधकेशकलाप इति साम्बप्रतिपादनेन दोषाभावात् ॥ सखी नायिका शिक्षयति परिवृत्तनामि लुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि । बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥ ३६३ ॥ परीति । हे अलसाक्षि । गर्भभरालसत्वादिति भावः । परिवृत्तनाभिः । लुप्तत्रिवलि । श्यामचूचुकम् । बहयो धवला जघने नखरेखा यस्मिंस्तत् । गर्भ जघने कण्डूतेर्जायमानत्वादिति भावः। सर्वमेतत्परिपक्वगर्भचिहम् । ते एवंविधं शरीरं पुरुषायितं विपरीतरतम् । तत्करणसमर्थ न । एवं चाधुना प्राग्वद्विपरीतरतं न विधेयमिति व्यज्यते ॥ सखी नायकोत्साहवर्धनाय नायिकां वक्ति प्रारब्धनिधुवनैव खेदजलं कोमलानि किं वहसि। . ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥ ३६४ ॥ प्रारब्धेति । आरब्धसुरतैव । अत्रोपसर्गोऽनुचितः । हे कोमलाझि, खेदजलम् । जलपदमाधिक्यं द्योतयति । वहसि । इदं तत्किम् । नोचितमित्यर्थः । सज्जीकर्तुं नमिता कुसुमास्त्रस्य मदनस्य धनुर्लतेव मधु । एवं च सुरतारम्भ एवैतादृशः श्रमः, तत्राने कथं भविष्यतीति नायिकायां सौकुमार्यमावेद्यते । तेन चैतादृशी नायिका दुर्लभतरेति । मदनधनुर्लतासमताप्रतिपादनेनानयैव मदनस्य जगज्जय इति प्रतिपादनेनेतरनायिकाव्यतिरेको ध्वन्यते। यद्वारब्धनिधुवनैवेत्यनेनैतस्या अयं खभावो यत्सुरतादावेव श्रमो नोत्तरकालमिति ज्ञापनेन यथेच्छं भीतिमपहाय सुरतसंगमो विधेय इति नायकं प्रति व्यज्यते । नायकोकिरियं वा ॥ जायाजितोऽयमित्यपकीर्तिभाषिसर्वलोकावगणनां विधायापि मया त्वदधीनतयैव स्थीयत इति ज्ञापयितुं भङ्गयन्तरेण नायको नायिका वक्ति पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्रपामपाकृत्य । जायाजित इति रूढा जनश्रुति, यशो भवतु ॥ ३६५ ॥ पुंसामिति । हे सुन्दरि, लजां दूरीकृत्य खमुखचन्द्रमितरनायकानामीषदर्शय। एवं च लज्जापरित्यागमैतत्फलं यदीषन्मुखदर्शनमित्यत्यन्तलज्जावत्तमाके
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy