________________
'काव्यमाला।
निःशेषतो दूरीकरोति । मानम् । नायिकया कृतमिति भावः । मर्दयति । निर्वृति हरति । दुःखं जनयतीत्यर्थः । नायिकाया एवेति भावः । नायिकाकृताञ्शपथान् । यद्यहमधुनानेन सह संभाषणमपि करिष्ये तर्हि विरचितातनुचरणपरिचरणं विफलीकरिष्य इत्येवमादीन् । निहन्ति । उपसर्गेण खकृतशपथस्मृतिबीजसंस्काराभावो व्यज्यते । जागरेण दीर्घा रात्रिः । हे सुभग। अचेतनयापि निशयानुकूल्यसंपादनादिति भावः । जागरेण दीर्घा निशा यस्या इति वा ॥ सखी नायिकावृत्तमपरसखी वक्ति
प्रिय आयाते दूरादभूत इव संगमोऽभवत्पूर्वः ।
मानरुदितप्रसादाः पुनरासन्नपरसुरतादौ ॥ ३६१॥ प्रिय इति । प्रिये, न तु पत्यौ । दूरादायाते । एवं च विरहवत्त्वमावेद्यते । प्रथमः सोऽसंजातप्राय इवाभवत् । द्वितीयसुरतारम्मे मानरुदितप्रसादाः । पुनस्त्वर्थे । अभवत् । एवं च संगमस्याप्यज्ञानादत्यन्तमन्मथविकारशालित्वमावेबते । खभाववर्णनमेतत् ॥ सखी नायिका वक्ति
पूर्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितम् ।
शूलपोतं सरुधिरमिदमन्धकवपुरिवाभाति ॥ ३६२ ॥ पूर्वेति । उदयाचलमस्तके निकटवर्त्यरुणकिरणकवलितमिदं तमः शूलाग्रप्रोतसरुधिरान्धकनामकदैत्यशरीरमिव शोभते । एवं च प्रातःकालः संवृत्तः, अत उपपतिनिःसार्यतामिति द्योत्यते । नायकसहचरवचनमिदं वा। एवं चाधुना निर्गन्तव्यमिति भीतिप्रदर्शनपुरःसरं व्यज्यते। अथवा नायिकायाः पद्मिनीत्वात्सूर्योदयोत्तरं सुरतविधानस्यौचित्येन सूर्योदयः सत्वरमेव भविष्यतीति ज्ञापकमिदं नायिकासहचरीवाक्यम् । यद्वा नायको नायिका वक्ति । अक्षरच्युतकालंकारवदक्षरपूर्वकस्यापि युक्तितौल्यादलंकारतया पूर्वमहीधरशिखर इत्यस्याभिनवस्तनाग्र इत्यर्थः । संलमकाश्मीरदीप्तिकलितमिदं केशजातं शूलाप्रपोतरुधिराकान्धकासुरवपुरिव । तस्य श्यामत्वादिति भावः । आभाति । एवं च विपरीतरतसमप्रसंजातमुक्तिमुखचुम्बननमनकुचशिखरनिपतितकेशकलापवत्तयातिशयितशोभास्ति, अत एवमेव केशकलापावस्थितिरास्वामिति व्यज्यते । तेन च विपरीतरतान विरतिर्विधेयेति । ननु भ्यारवीभत्सयोर्विरोधात्कथमत्रोभयनिबन्धनमिति चेत् 'सर्यमाणो विरु