SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। नयनचुम्बनजन्ययेति भावः । दग्धपदेन तस्या द्वेषविशेषवत्तावेद्यते । न लबते। एवं च प्रात्यक्षिकरतचिहवत्त्वान्मिथ्याभाषित्वं दृढीक्रियते । अथ च श्याममुखत्वेऽपि परिहारकारकतया निर्लबत्वं द्योत्यते ॥ सखी नायिका वकि पश्योत्तरस्तनूदरि फाल्गुनमासाद्य निर्जितविपक्षः। वैराटिरिव पतङ्गः प्रत्यानयनं करोति गवाम् ॥ ३५८ ।। पश्येति । हे कृशोदरि, उत्तरा दिगस्त्यस्य । अर्शआदित्वादच् । उत्तरदिक्संबन्धी । पक्ष उत्तर इति तन्नाम । निर्जितहिमादिविपक्षः । पक्षे विपक्षः सुयोधनादिः । पतङ्गः सूर्यः । फाल्गुनं मासम् । पक्षेऽर्जुनम् । प्राप्य विराटापत्यमिव गवां किरणानाम् । पक्षे धेनूनाम् । परावृत्तिं करोति । हेमन्तापगमात्तेजोविशेषशालितया किरणप्रत्यायनोक्तिः । एवं च हेमन्ते गतेऽपि वसन्तादाववश्यं मदनमहत्तरशरसंत्रस्तस्तव प्रियः समायास्यतीति व्यज्यते। यद्वा यथा फाल्गुनसाहाय्येन वैराटिना गावः परावृत्त्यानीताः पतङ्गेन किरणाः, तथा त्वमपीदानींतनैतादृशसमयसाहाय्येन नायकचित्तस्याङ्गनातः परावृत्तिं विधेहीति ध्वन्यते । श्लेषमात्रमति ऋजवः । केनचित्कस्यचित्साहाय्येन खकीयं गतं वस्त्वानीयत इत्यन्योक्तिरपि ॥ नायको नायिका वक्ति प्रमदवनं तव च स्तनशैलं मूलं गभीरसरसां च । जगति निदाघनिरस्तं शैत्यं दुर्गत्रयं श्रयति ॥ ३५९ ॥ प्रमदेति । अन्तःपुरसमीपवनं प्रकृष्टमदकारि वनं वा । त्वदीयस्तनशैलम् , गभीरसरसां मूलमिति दुर्गत्रयं निदाघेन ग्रीष्मेण जगति निरस्तं शैत्यं श्रयति । एवं च नितरां दाघो यस्मादिति व्युत्पत्त्या मदनसंतापसंतप्तस्य मम त्वत्कुचावेव शरणाविति व्यज्यते । तेन च वं मदङ्गीकारं कुर्विति । अन्योऽपि केनचित्पराभूतो वनशैलजलदुर्गाश्रयेण जीवतीति लौकिकम् । अत्र किं किं दुर्गमिति विशेषकर्माकाहायां प्रमदेत्यादि । एवं च निदाघकाले शैत्यं स्थलत्रयेऽधिवसतीति भावः॥ नायिकासखी नायकं वक्ति प्रोञ्छति तवापराध मानं मर्दयति निर्वृति हरति । खकृतान्निहन्ति शपथाजागरदीर्घा निशा सुभग ।। ३६० ॥ प्रोञ्छतीति । त्वत्कृतापराधम् । एकलमविवक्षितम् । प्रोञ्छति । एवं च
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy