________________
१५०
काव्यमाला।
मकः । गुरुषु झारस्य कथनमेव विपक्षे उक्ताकरणेऽयमेव दण्डः । पुरुषायितं विपरीतरतं पणः पराजये देयं वस्तु । तत्तर्हि बाले दायः पाशपातनं परिभाव्यतां क्रियताम् । एवं चाक्षक्रीडने यदि तवास्ति रतिस्तयनया रीत्या अक्षक्रीडनं विधेयमिति भावः । एवं च रत्युत्कण्ठा ध्वन्यते । अत्र बालापदेन मुग्धा न विवक्षिता। तस्यास्त्वेवंविधप्रागल्भ्याभावात् ॥ . कयाचन विलोकितः कश्चित्तां प्रत्याह
परमोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् ।
विशिख इव कलितकर्णः प्रविशति हृदयं न निःसरति ॥३५५॥ परेति । उत्कृष्टसुरताय । 'मोहनं नारमेत्तावत्' इत्यादि कामतन्त्रे मोहनशब्दस्य सुरतार्थकत्वेन कथनात् । यद्वोत्कृष्टभ्रान्यै । अथवान्यस्य वश्यतासंपादनाय । पक्षे शत्रुमूर्छायै मरणायेति वा । मुक्तः । कलितः कर्णो येन । आकर्णशाल इत्यर्थः । पक्षे कर्णान्ताकृष्ट इत्यर्थः । तव कटाक्षो बाण इव हृदयं प्रविशति । न निःसरति । हे तरुणि, एवं च बलवत्प्रेरितत्वेन दुःसहत्वं ध्वन्यते । अत एव निर्गतकरुणे । कलितकर्ण इत्यनेन संपूर्णाकर्षणेन मेदविशेषकर्तृत्वं द्योत्सते । एवं चाहं त्वदायत्त इति व्यज्यते ॥ सखी नायकं प्रति वक्ति
प्रपदालम्बितभूमिश्चुम्बन्ती प्रीतिभीतिमधुराक्षी ।
प्राचीरापनिवेशितचिबुकतया न पतिता सुतनुः ॥ ३५६ ॥ प्रपदेति । पदाग्रावलम्बितभूमिः । प्रीतिभयाभ्यां मनोज्ञनयना । वां चुम्बन्ती सुतनुः । एवं च सङ्गयोग्यत्वं ध्वन्यते । वृत्यग्रस्थापितचिबुकभावेन न पतिता । एवं च साहसकारित्वमावेद्यते ॥ नायिका सखी वक्ति
प्रातरुपागत्य मृषा वदतः सखि नास्य विद्यते ब्रीडा ।
मुखलमयापि योऽयं न लज्जते दग्धकालिकया ॥ ३५७ ॥ प्रातरिति । प्रातः समीपमागत्य मृषाभाषिणः । नाहमन्यत्र गत इति । अस्य । प्रियस्येत्यनुपादानादत्यन्तदुःखवत्त्वं ध्वन्यते । लज्जा न विद्यते । ननु वास्तवं न गत एव भविष्यतीत्यत आह-योऽयं वदनलमया दग्धकालिकया।।