________________
आर्यासप्तशती ।
१४९
कथमागतेन तेन सह संगतिः स्थलाभावान्न वृत्तेति वादिनीं सखीं प्रति नायिका
वति
प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति ।
I
यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः ३५२ प्राङ्गणेति । हे सखि, प्रकृष्टमङ्गणं तत्कोणेऽपि । एवं च स्थलसत्त्वमावेद्यते। स तद्वारकसंकेतशाली । सुधामृतं तत्प्रचुरः । संतापापनोदकत्वादिति भावः । निशापतिश्चन्द्रः । अथ च निशायां पतिः । उपपतिरित्यर्थः । तापं हरति । यदि मां रात्रिज्वर इव स दुष्टत्वेन प्रसिद्धो गेहपतिः, न तु प्रियः । न निरुणद्धि | एवं च यदि न तेन रात्रौ निरोधः कृतः स्यात्तदा क्वचिदङ्गणकोणेऽपि मया तेन सह रतं कृतं स्यादित्यावेद्यते । एवं च ममापराध इति । तेन चैतत्क्षन्तव्यमिति प्रार्थना । ज्वर इवेत्युपमया नायकं प्रति स्वस्यासामर्थ्य व्यज्यते । ज्वरवतो बहिर्निःसरणं निशि निषिद्धमिति वैद्यकम् । यद्वा गेहपतिरित्यनेन गेहस्थितवस्तुसंरक्षणकर्तृत्वं न मद्रक्षणकर्तृत्वम् । अतो दैवादद्य गृहवस्तुसंरक्षणप्रनृत्तेन द्रुतमेव गृह| कपाटादिदानेन ममापि रक्षणं जातम् । अतः श्वस्तथा यतिष्ये यथावश्यं तेन सह संगमो भविष्यतीति ध्वन्यते । 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके' इतिवदुत्तरवाक्यान्तर्गतस्य यच्छब्दस्य तच्छब्दापेक्षेति बोध्यमत्र ॥ सखी नायकं प्रति नायिकाप्रेमाधिक्यं वक्ति
पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया ।
अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥ ३५३ पतीति । पतिः, न तु प्रियः । तत्पुलकैः प्रेमजन्यसात्त्विकभावरूपैः खिन्नानि गात्राणि यस्याः सा । एवं चातिकोमलाङ्गीत्वं व्यज्यते । स्वस्य छायाया वीक्षणे सभयापि या । अपिः प्रागप्यन्वेति । सा कण्टकं दलयन्ती । कण्टकमित्येकत्वमविवक्षितम् । अन्धकारे त्वामभिसरति । हे सुभग । एतादृशनायिकाया एतादृशाभिसरणवत्त्वादिति भावः । स्वच्छायेत्यनेन परसंसर्गराहित्येनातिप्रामाणिकत्वं द्योत्यते । तेन चैतादृश्यपि त्वय्यासकेत्यतस्त्वया न कदापीयं परित्याज्येति ॥ अक्षक्रीडनं विधेयमधुनेति वादिनीं नायिकां नायको वक्ति
प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु । पुरुषायितं पणस्तद्बाले परिभाव्यतां दायः ॥ ३५४ ॥ प्रतिभूरिति । शुकः । एवं चान्यथाकरणशील्प्रभावो व्यज्यते । प्रतिभू