________________
११८
काव्यमाला । कारित्वमावेद्यते। यद्वा शिखरस्थितिप्रतिपादनेन प्रतिष्ठाक्त्त्वं द्योत्यते। मुकुल इत्येकवचनेनातिखल्पत्वमाकुल इत्यनेनाधैर्यवत्त्वप्रतिपादनेन प्रतिष्ठावैधुर्यवत्त्वं च. न्यते । एवं च यथा भ्रमरकाकयोरर्जने मेदस्तथा समीचीनासमीचीनयोरिति ध्वन्यते । अथवा समुदायसंपादनपुरःसरातिलौल्येऽपि न किंचित्फलं नीचानामेकस्य समीचीनस्यापि फलं भवतीत्यन्योक्त्या कश्चिद्वति ॥ सखी नायकसमक्षं नायिकां कयाचन भङ्गया स्तौति
प्रतिबिम्बसंमृताननमादर्श सुमुख मम सखीहस्तात् ।
आदातुमिच्छसि मुधा किं लीलाकमलमोहेन ॥ ३५॥ प्रतीति । हे सुमुख, प्रतिबिम्बेन संमृतं व्याप्तमाननं यस्मिंस्तमादर्शम् । एवं च प्रतिबिम्बभवनयोग्यत्वं ध्वन्यते । लीलाकमलभ्रान्त्या मम सखीकरादृथा। लीलाकमलाभावादिति भावः । ग्रहीतुं किमितीच्छसि । सुमुखेत्यनेन बुद्धिशालिवमावेद्यते। एवं च बुद्धिविशेषवतोऽपि तव यत्र मत्सखीकरतलाकलितललितप्रतिबिम्बितवदनारविन्दादर्श लीलाकमलभ्रमः, तत्रास्मद्विधानामीदृशभ्रमवत्तायां किमपूर्वमिति व्यज्यते । तेन च नायिकासौन्दर्यम् । अत्र च नायिकावदनप्रतिबिम्बमरितत्वादादर्श एव लीलाकमलभ्रमः। 'सुमुखि' इति पाठे नायको नायिका वक्ति। सुमुखीसनेन कमलभ्रान्तिजनकत्वमावेद्यते॥ सखी मानवतीं नायिका वक्ति
प्राचीनाचलमोलेर्यथा शशी गगनमध्यमधिवसति ।
त्वां सखि पश्यामि तथा छायामिव संकुचन्मानाम् ॥ ३५१ ॥ प्राचीनेति । हे सखि, प्राक्प्राच्यां भवो योऽचलः । पूर्वाचल इत्यर्थः । तन्मस्तकाद्यथा चन्द्रो गगनमध्यमधिवसति तथा छायामिव त्वाम् । संकुचन्मानः। प्रियापराधजन्यचेष्टारूपः । पक्षे परिमाणं यस्या एतादृशीम् । पश्यामि । अत्रोभयत्र वीप्सा युक्तेल्याभाति । एवं च यथा यथा चन्द्रप्रकाशातिशयस्तथा तथोद्दीपनातिशयेन मानक्षीणता भवतीत्यत इदानीं तव समयो गतः पुनर्नायास्यतीत्यत इदानीमेव वं तं परित्यज्य यथेच्छं नायकेन सह रमखेति व्यज्यते। यथा यथा शची मगनमध्यमविवसतिः करोति तथा तथा छायापि संकुचिता भवति ॥