________________
आर्यासतशती।
१४. तणं विधेयमिति भावः । एवं चैतस्याः प्रचुरधनवत्याः सापराधत्वाच वचनमात्र तिमुत्सृज्य किंचिदेतस्याः सकाशाद्राह्यमिति व्यज्यते ॥ नायिकासखी दूती प्रत्याह
प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरगैः। प्रियसनाय स्फुरितां वियोगिनी वामबाहुलताम् ॥ ३४७ ।। प्रणमतीति । प्रियसंगमसूचकस्फुरणशालिनी वामबाहुलतां वियोगिनी मतीत्यादि योजना । एवं च यत्र प्रियसंगमसूचकस्फुरणवदचेतनवामबाहुलयाः किं किं न क्रियते विरहवत्या तत्र किमु वाच्यं सद्यः प्रियसमागमकारिण्या या इति भावः । अत एव प्रणामानहत्वव्यञ्जकं वामपदमर्थवत् ॥ काचन कंचित्प्रति वक्ति
प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वमातनुषे ।
बालक चेतसि तस्याश्चक्रव्यूहेऽभिमन्युरिव ॥ ३४८ ॥ प्रविशसीति । हे बालक । एवं च ज्ञानशून्यत्वं व्यज्यते। चक्रव्यूहेऽमियुरिव तस्याश्चेतसि त्वं प्रविशसि। व्याकुलत्वं पीडामातनुषे। निर्गन्तुं न च नासि। एवं च सा त्वय्यत्यन्तमासक्ता त्वमेवाज्ञत्वमाचरसीति व्यज्यते । यद्वा व्याकुलतां कुरुषे । एवं चैतस्या हस्तात्तव न निर्गम इत्यावेद्यते ॥ समीचीनानां समीचीनोऽसमीचीनानामसमीचीन एवाश्रय इति कश्चिदन्योक्त्या
पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो मुखरः।
अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥३४९॥ पश्यति । हे सखि, इन्दिन्दिरेण अमरेण । एकत्वमविवक्षितम् । माकस्य । 'माकन्दः सहकारोऽस्त्री' इत्यनुशासनाचूतस्य मस्तको मुखरः। अन्यत्र चुमन्दस्य । 'पिचुमन्दश्च निम्बः' इत्यमरः । तन्मुकुले मौकुलीनाम् । 'एकहश्चिरंजीवी मौकुलिकि इत्यपि' इति क्षीरखामी। काकानां समूहः। आकुलमिति याविशेषणम् । मिलति । इदमनुरूपं त्वं पश्य । एवं च यथायोग्य एवाश्रयो तीति भावः । यद्वा समीचीनानामन्यादृशरीत्यार्जनमसमीचीनानामन्याहशरीत्या वतीति कश्चिदन्योक्या वक्ति। माकन्दत्वेन परिमलबहुलत्वं तेन च गमनयोत्वं ध्वन्यते । शेखरो मुखर इत्यनेन संनिधिसंस्थित्या पाण्डित्यप्रदर्शनद्वारार्जन