________________
काव्यमाला।
मेव द्रढयति-वपुःकान्त्यैव तरुणान्खाधीनीकरोषि । अत्र दृष्टान्तमाह-मदनस्य तिरस्कृतास्त्रशस्त्रा मल्लविद्येव । सापि शारीरकर्तव्यतैव जयकत्रीति भावः । एवं च मा विलम्ब कुर्विति व्यज्यते ॥ काचिनायिका सखी प्रत्याह
नेत्राकृष्टो प्रामं प्रामं प्रेयान्यथा यथास्ति तथा ।
सखि मन्थयति मनो मम दधिभाण्डं मन्थदण्ड इव ॥३४॥ नेत्रेति । नेत्रेण चक्षुषाकृष्टः । पक्षे गुणेन । 'नेत्रमणि गुणेऽपि च' इत्यभिधानात् । प्रान्त्वा भ्रान्त्वा प्रेयान् । एवं च मनःसंलमतायोग्यत्वं व्यज्यते । यथा यथास्ति तथा मन्थदण्डो दधिपात्रमिव मम मनो मन्थयति । एवं च मया कटाक्षित इतस्ततो मत्सविधभ्रममाणस्त्वया सत्वरं संगमनीयो येन मनोदुःखं दूरीभविष्यतीति व्यज्यते ॥ दूती नायकं प्रत्याह
नानावर्णकरूपं प्रकल्पयन्ती मनोहरं तन्वी।
चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥ ३४५॥ नानेति । चित्रलेखकहस्तगतलेखनीवत्सा तन्वी कृशाङ्गी सूक्ष्मा च भित्तौ मित्तौ मनोज्ञं नानाप्रतिमारूपम् । पक्षे नानावर्णा एव नानावर्णकानि तैः कृत्वा रूपं यस्यैतादृशं चित्रं प्रकल्पयन्ती भावयन्ती । एवं च चित्रविलोकनव्याजेन त्वामेव भावयतीति भावः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यत्यार्थदीपनया समेता नकारत्रज्या ।
पालकलाहुंकारैः
पकारव्रज्या। कस्याश्चिद्वचनमात्रादेव मीतान्प्रति कश्चिदन्योक्त्या वक्ति
पथिकासका किंचिन्न वेद घनकलमगोपिता गोपी।
केलिकलाहुंकारैः कीरावलि मोघमपसरसि ॥ ३४६ ॥ पथिकेति । पथिके आसका । घनाः कलमाः श्वेतशालयस्तै!पिता । धनपदेन किंचिद्भक्षणेऽपि ज्ञानायोग्यत्वं व्यज्यते । गोपीयनेन खतो मौख्यं द्योत्यते। अतः केलिकलासंबन्धिहुंकारैः । एवं च न भवनिवारणार्थमेते शब्दा इति भावः। कीरावलीत्यनेन वचनपटुत्वं व्यज्यते । वृथापसरसि । एवं च भवद्भिः कलम
धनाः कलमाः नन खतो मोडत भावः ।