________________
आयोसतशती।
वः । कनके । तैजसत्वादिति भावः । मणौ । प्रकाशकत्वादिति भावः । समुद्रे । इवानलस्य सत्त्वादिति भावः । यत्तेजतदखिलमब्जमित्रस्य । एवं च येन सह रोधस्तेनैव सह तत्करणमुचितं न त्वन्येनापि सह तत्करणमुचितमिति ज्ञानविपशालित्वं ध्वन्यते । ओजायितम् । सामर्थ्यमित्यर्थः ॥ नायिकादूती नायकं वकि
न सवर्णों न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।
बाला त्वद्विरहापदि जातापग्रंशभाषेव ।। ३४२ ॥ न सवर्ण इति । स पूर्वानुभूतो वर्णः कान्तिः । पक्षे सवर्णकार्यम् । न । केवलं पूर्वकान्तिहानिः, अपि तु न तत्खरूपमपीसाहन च रूपम् । पक्षे कृतिप्रत्ययनिष्पाद्यशब्दखरूपम् । ननूद्वर्तनादिसंस्कारेण कान्तिर्भविष्यतीत्यह-संस्क्रिया न । पक्षे साधुत्वम् । ननु संस्क्रिया कार्येत्युपदिश्यते न कुतो वत्सेत्सत आह-सा पूर्वानुभूता कापि खल्पापि प्रकृतिः खभावो नैव । एवं पदेशकरणे भीतिरावेद्यते । पक्षे प्रातिपदिकम् । बाला । एवं चाज्ञत्वं तेन च यके शठत्वं द्योत्यते । त्वत्संबन्धिवियोगविपत्तौ । एवं च विपन्नस्य पूर्वकान्त्यापगच्छतीति भावः । अपभ्रंशभाषाऽसाधुवाक्यम् । यद्वा इवशब्दोऽवधारणार्थकः । अपगतो भ्रंशोऽसमीचीनत्वं यस्या एतादृशी भाषा यस्यास्तादृश्येव संवृत्ता । एवं त्वद्विरहजनितदुःखेन पूर्वकान्याद्यपगमेऽपि त्वद्विषये न कदाप्यसम्यग्वदति न तादृशी काप्यन्या सहनशीलेति व्यज्यते । तेन चैतादृश्यामौदासीन्यमत्सन्तानुचितमिति ॥ | अलंकारादिकरणेन विलम्बकारिणी नायिका संकेतं प्रति सत्वरनिर्गमनाय तखी वक्ति
न विभूषणे तवास्था वपुर्गुणेनैव जयसि सखि यूनः।
अवधीरितास्त्रशस्खा कुसुमेषोर्मल्लविद्येव ॥ ३४३ ॥ नेति । हे सखि । एवं च यथार्हवादार्हत्वं ध्वन्यते । तव । एवं चान्यादृशी पतिरन्यासामिति भावः । एवं चान्यामिर्यद्विधीयते तत्खयमपि विधेयमिति मनसि न विधेयमिति व्यज्यते । विशिष्टभूषणे । एवं च सामान्यतो भूषणानि सन्त्येवेति भावः । 'न च' इति तु युक्तः पाठः । आस्थासकिः । न । उचितेति शेषः । नत्कार्यस्य नायकवशत्वसंपादनादेः साहजिकवपुर्णणेनैव संपादनादिति भावः । इद
१० आ० स०