________________
काव्यमाला।
च्याचन किंचिदवलोकितः कश्चित्तां सपरिहास वक्ति- . .
निधिनिक्षेपसानस्योपरि चिहार्थमिव लता निहिता। .
लोमयति तव तनूदरि जघनतटादुपरि रोमाली ॥ ३३८॥ निधीति । निधेः । 'निधिर्ना शेवधिर्भेदाः' इत्यमरः । निक्षेपस्थानं तदुपार चिह्नार्थम् । विस्मरणाभावायेति भावः । निहिता लतेव । हे तनूदरि । एवं च निधिनिक्षेपयोग्यत्वं ध्वन्यते । तव जघनस्य तटात्प्रान्तात् । तटपदेन लतारोपणयोग्यत्वं ध्वन्यते । रोमराजिलॊभयति। निधिस्थानस्थिताया लोभजनकत्वौचित्यमिति भावः। एवं च जघनाधो निधिनिक्षेपस्थानमस्तीति परिहासो व्यज्यते । यद्वा सगर्भासीति । यत्र हि निधिः स्थाप्यते तचिह्नार्थ लतादि क्रियत इति लौकिकम् ॥ तस्याः सखी तं वक्ति
निहितार्घलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् ।
न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥ ३३९ ।। निहितेति । निहितार्थलोचनायास्त्वयि किंचित्कटाक्षं कुर्वाणायास्तस्यास्त्वं हृदयपर्यन्तं हरसि । कथमन्यथैतादृशं वचनमिति भावः । सुभग । एवं चान्यादृशवचनानौचित्यं व्यज्यते । ईदृशं समुचितं न । यदडलिदाने भुजं पिलसि ॥ बहवस्तरुणा ममापेक्षां कुर्वन्तीति गर्वशालिनी कांचित्काचिद्वक्ति
नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा ।
अचिरेण कैर्न तरुणैर्दुर्गापत्रीव मुक्तासि ॥ ३४०॥ नीत्वेति । अगारं गृहं नीत्वा । एवं चान्यगृहगमनेन लघुत्वमावेद्यते । आदरसहितमेकं न बहुरात्रिजागरम् । दत्वा तरुणैर्दुर्गापत्रीव शीघ्रं कैन मुक्तासि । एवं चैकदिनोत्तरमेव सर्वेषां न तवासक्तिरिति व्यज्यते । तेन च वं गुणरहितैव। एवं चैकमात्रासकिमत्येव समीचीनेति ध्वन्यते । नवरात्रे बिल्वशाखामण्यामानीय रात्रौ संपूज्य जागरादि विधाय नवम्यां परित्यज्यत इति देशविशेषरीतिः॥'
यत्र यत्र यद्यत्सामर्थ्य तत्र तत्र तवैवेत्सन्योक्त्या कश्चित्कंचिद्वति-- . नक्षत्रेऽवाविन्दावुदरे कनके मणौ दृशि समुदे ।
यत्सल तेजस्वदखिलमोजायितमनमित्रस ॥ ३१ ॥ नक्षत्र इति । अमावस्याश्रये । उदरे । अचादिपाकचेजसः सत्वादिति