________________
आर्यासप्तशती।
१४३
पारणं मरणं जीवनं सुखं दुःखं वा यस्य । जायापतिभावो दांपत्यं सर्वोत्कर्षण ते । एवं चैतादृग्यन्न भवति दांपत्यं तदपकृष्टमिति व्यज्यते । तेन च खस्मिविक्यम् । एवं चातिशयितप्रेमवत्तया क्षणक्षण एवापराधसंभावना तद्विलयश्चेति न्यते । सामान्यमित्यादिनैकात्म्यमभिव्यज्यते ॥ कश्चिदेकदा प्राप्तसङ्गां तदुत्तरं च किंचिन्निमित्तविच्युतसङ्गां कांचिद्वक्ति
न प्राप्यसे कराभ्यां हृदयानापैषि वितनुषे बाधाम् ।
त्वं मम भावस्थितकुसुमायुधविशिखफलिकेव ॥ ३३५॥ नेति । भन्मा सत्यवस्थिता या मदनशराप्रलोहशलाका तद्वत्त्वं हस्तगता न वसि । हृदयान निःसरसि । पीडां च विस्तारयसि । भमावस्थितेत्यनेन करग्रहोमे भीतिरावेद्यते । कुसुमायुधपदेन कोमलाङ्गीत्वं तेन चासक्तियोग्यत्वं ध्वन्यते । शिखफलिकेत्यनेन तीक्ष्णप्रतापशालित्वं व्यज्यते । एवं च त्वदप्राप्त्याहमतिदु:खत इति ध्वन्यते ॥ ममाज्ञाकारी मन्नायक इति वादिनी कांचित्काचिद्वति
नाथेति परुषमुचितं प्रियेति दासेत्यनुग्रहो यत्र ।
तदांपत्यमितोऽन्यनारी रजुः पशुः पुरुषः ॥ ३३६ ॥ नाथेति । यत्र नाथेति संबोधनमतिनिष्ठुरम् । प्रियेत्युचितम् । यथा कस्यविदागतस्य किश्चिदुचितं क्रियते तथा प्रियेति संबोधनमुचितमित्यर्थः । दासेत्सनु. हः । आत्मत्वेनामीकार इत्यर्थः । एवं चाभिन्नप्रायतया नोपचारादियंत्रेति भावः । होपलं जायापतिभावः । इतोऽन्यनारी रज्जुः । एवं चाकर्षणयोग्यत्वं ध्वन्यते । रुषः पशुः । एवं च रसानभिज्ञत्वं ध्वन्यते । यद्वा नायकस्येयमुक्तिः ॥ पूर्वनायिकासखी प्रति नायको वक्ति
निहितायामस्यामपि सैवैका मनसि मे स्फुरति ।
रेखान्तरोपधानात्सवाक्षरराजिरिव दयिता ।। ३३७ ॥ निहितायामिति । अस्यां पुरोवर्तिन्यां मनसि निहितायामपि सैव वनायिकवैका दविता मे मनसि स्फुरति । एवं च तस्यामेव ममासकिरिति व्यज्यते। दखान्तरविधानात्पत्ररूपाक्षरपक्किरिव । एवं च स्थिरत्वं धन्यते ॥