________________
१४२
काव्यमाला।
दनद्वारैव देवप्रातिकूल्यमिति देवाधिकस्त्वं तस्या इति ध्वन्यते । कण्ठे । स्थितमिति भावः । कुसुमं हारयति दूरीकारयति । एवं च त्वत्पराचुखताविचारसमयसंजातविरहवशात्परित्यक्तहारस्य दैवादवस्थितैककुसुमस्य न खतो दूरीकरणमसामर्थ्यात्, अतोऽतिविरहक्षीणतातिशयवत्तयातिदूयमाना नोपेक्षणीयेयं त्वयेति ध्वन्यते । एवं च मुखपरावृत्तिमात्रादेवमवस्था तस्याः का वाच्या दिवसपरिकलनायामिति कुसुमं कण्ठे हारत्वेन करोति । एवं च त्वत्परावृत्तिसमयमेवं काश्यं तस्याः संवृत्तमित्यावेद्यत इत्यप्याहुः॥ कथमनया त्वं ताडित इति वादिनं कश्चित्समाधत्ते
नखदशनमुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य ।
अपराधं शंसन्त्यः शान्ति रचयन्ति रागिण्यः ॥ ३३२ ॥ नखेति । अत्र पातशब्देन संयोगो लक्ष्यते । एवं च दन्तनखक्षताभिपातरित्यर्थः । अदयैः । गाढेरित्यर्थः । आलिङ्गनैः । सुभगस्य, न त्वभाग्यस्य । अपराधम् । एवं चैकापराध एतादृशम् , किं पुनर्बह्वपराध इति भावः । शंसन्त्यः । एवं च न वास्तवापराघस्थापनमिति भावः । अनुरागवत्यः । एवं चान्यासामन्यादृशी रीतिरिति भावः । शान्ति क्रोधोपशमं रचयन्ति । एवं च नायककर्तृककोपपरिहारापेक्षापि नेति भावः । एवं च यस्यैवात्यन्तमासक्ता नायिका तस्यैवैतादृशी रीतिः, नान्यस्येति व्यज्यते ॥ कस्यचिदासक्त्या गर्वितां कांचित्काचिदन्योक्त्या वक्ति
न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौरभेयि घण्टा कपिलापुत्रीति बद्धेयम् ॥ ३३३ ॥ नेति । गुणे बहुदोग्धृत्वादौ कलाकौशले च । लक्षणे सामुद्रिकोकादौ । तारुण्ये । रूपे शुक्लादो सौन्दर्ये च । आदरो न विहितः । सौरमेयि, त्वयि कपिलायाः पुत्रीति हेतोरियं घण्टा निबद्धा । एवं च त्वन्मातुर्गुणवत्त्वादिना प्रसिद्ध्या तजन्यत्वमात्रेणैवं वृत्तमिति किं गर्वमावहसीति व्यज्यते ॥ निष्कारणमेव कलहादिकं भवति भवद्गहे किमिदमिति वादिनं कश्चिद्वक्ति1. निष्कारणापराधं निष्कारणकलहरोषपरितोषम् ।
सामान्यमरणजीवनसुखदुःखं जयति दांपत्यम् ॥ ३३४ ॥ - निरिति । कारणं विनवापराधो यस्य । कारणं विनैव कलहक्रोधसंतोषा यस।