________________
आर्यासप्तशती। वारवनितासंगतिरनुचितेति कश्चित्कंचिदुपदिशति
निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय ।
निर्मोकं च मुजंगी मुञ्चति पुरुषं च वारवधूः ॥३२८॥ निजेति । खशरीरसमतया स्थापितम् । एवं चातिप्रियत्वमावेद्यते । समप्र रभूतं वस्तु गृहीत्वा कचुकं सर्पिणीव पुरुषं वाराङ्गना त्यजति । कचकवनिःसातां विधाय त्यजति वेश्या, अतो न तत्संगतिरुचितेति व्यज्यते ॥ ' सखी नायिका वक्ति
नृत्यश्रमघर्मा मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।
मकरन्दोदकजुष्टं मदनधनुर्वलिरिव चोलम् ॥ ३२९ ॥ नृत्येति । नर्तनश्रमेण यः खेदस्तेनाई कमुक क्लेशेन त्यजसि । पुष्परसपार्भावाक्रान्तं चोलं मदनधनुर्वल्लिरिव । एवं च सुरतश्रमे किं त्वया विधेयमिति रिहासो व्यज्यते ॥ नायिकादुश्चरितं विज्ञाय सखी वक्ति
नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा ।
प्रेमखमावसुलभं भयमुदयति मम तु हृदयस्य ॥ ३३०॥ नाहमिति । हे सुतनु, त्वं शीलशून्या प्रचण्डचरिता वेति नाहं वदामि । । पुनर्मम हृदयस्य प्रीतिखभावसुलभं भयमुदेति । एवं च कदाचित्केनचिदितीदं नातं चेत्तदा कथं भविष्यतीति त्वद्विषयकप्रीतिमत्तया मम तु भयमुत्पद्यत इति नावः । एवं च प्रीत्यभावेऽन्यस्य जाताप्यसमीचीनता न दुःखदेति ध्वन्यते । तेन तवं न विधेयमिति ॥ दूती कयाचन संगमयितुं कंचन नायकं वक्ति
न निरूपितोऽसि सख्या नियतं नेत्रत्रिभागमात्रेण ।
हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥ ३३१ ।। नेति । सख्या नायिकया नेत्रत्रिभागमात्रेण कटाक्षमात्रेण न निरूपितोऽसि म विलोकितोऽसि । एवं चान्तःकरणेन सा त्वय्यूत्यन्तमनुरागमागिनी संवृत्तति वन्यते । तेन च देवादवलोकित्तोऽहं तयेति त्वया सर्वात्मना न मन्तव्यमिति तदनुरागमेव विवृणोति । येन कारणेन देव इव त्वयि विमुखे कृतमरावृत्तौ सहोमेयम् । एवं च त्वद्वैमुख्य देववैमुख्यं जातमिति भावः । एवं च स्वदेवस्वसपा