SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | समीचीनजनं विना कवीनां न शोभा भवतीति कश्चिद्वतिनिजपद्गतिगुणरञ्जितजगतां करिणां च सत्कवीनां च । वहतामपि महिमानं शोभायै सज्जना एव ॥ ३१६ ॥ निजपदेति । चरणगतिः सुप्तिङन्तज्ञानं च । तद्रूपो यो गुणः ।' महिमानं महत्परिमाणं प्रतिष्ठां च । सज्जना भूषणसंपादनाः । 'कल्पनासज्जने समे' इत्यमरः । पक्षे समीचीनजनाः ॥ काचित्कस्यचित्प्रेमाणं स्तौति नौचपते न स्नेहं हरति न निर्वाति न मलिनो भवति । तस्योज्वलो निशि निशि प्रेमा रत्नप्रदीप इव ॥ ३१७ ॥ नोतपत इति । नोत्तपते नाधिकः । सम एवेत्यर्थः । पक्षे न दाहकः । न प्रीतिनाशकः । पक्षे न तैलनाशकश्च । न नश्यति । न मलिनम् । दुःखसंपादकमित्यर्थः । पक्षे न कज्जलं वमति । उज्ज्वलो मालिन्यशून्यः । अत्र मालिन्यजनकत्वाभावप्रतिपादनेनैव वैमल्यार्थसिद्धावेतत्कथनं न तथोचितमित्याभाति । निशीत्येतावता दिवा स्नेहाप्रदर्शनेन लोकगोपनादिचातुर्यवत्तया चिरकालीन संगतिनिर्वाहकत्वं व्यज्यते ॥ काचित्कस्मिंश्चित्खासक्ति कांचिद्वति २३८ निहितान्निहितानुज्झति नियतं मम पार्थिवानपि प्रेम । आमं भ्रमं तिष्ठति तत्रैव कुलालचक्रमिव ॥ ३९८ ॥ निहितानिति । निहितान्सख्यादिप्ररोचनया प्रेमारूढान्पार्थिवानपि भूपतीनपि । एवं चासक्त्यर्हत्वं व्यज्यते । पक्षे पृथ्वीविकारान्घटादीन् । मम प्रेम नियतम् । एवं च नान्यथाभाव आशङ्कनीय इति भावः । त्यजति । भ्रान्त्वा कुलालचक्रमिव तस्मिन्नेव तिष्ठति ॥ कश्चिन्नायिकासखीं वक्ति— निर्भरमपि संभुक्तं दृष्ट्या प्रातः पिबन्न तृप्यामि । जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥ ३१९ ॥ निर्भरमिति । अत्यन्तं संभुक्तमपि विगतवसनमस्या जघनं सूर्यनिम्बं कोक इव दृष्ट्या प्रातः । एवं च तथाविधरतविरतावप्येवं गतिस्तत्र दिनक्षणवृद्धी का वाच्येति व्यज्यते । सादरावलोकनं कुर्वन्न तृप्यामि ॥
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy