________________
आयोसप्तशती।
त्र दृष्टान्तमाह-हरेत्यादि । प्रथितपदेन निःसारणानहत्वं ध्वन्यते । एवमपासां का वार्तेति ध्वन्यते ॥
रामांचिचिणि
ववधूसौन्दर्यग
• नागरमोगानुमितववधूसौन्दर्यगर्वतरलस्य ।
निपतति पदं न भूमौ ज्ञातिपुरस्तन्तुवायस्य ॥ ३१२ ॥ नागरेति । नगरसंबन्धी । एवं च चातुर्यवत्त्वं ध्वन्यते । तेन च सुरूपाङ्गसङ्गकारित्वम् । तरलस्य चञ्चलस्य कुविन्दस्य स्वकीयज्ञात्यग्रे भूमौ पदं न निपति । गर्ववशादिति भावः । एवं चातिमूर्खत्वं व्यज्यते । एवं चेतादृशनातीयानां तुरसुरुषेण खाङ्गनाभोगे क्रियमाणे नेा संजायते, अतस्त्वया सुखेनात्रागन्तयमिति ध्वन्यते ॥ एतादृशेन सह संगतिर्न कार्येति सखी वक्ति
निपतति चरणे कोणे प्रविश्य निशि यनिरीक्षते कस्तत् ।
सखि स खलु लोकपुरतः खलः खगरिमाणमुद्विरति ॥३१३॥ निपततीति । कोणे प्रविश्य । एवं चागणनीयत्वं व्यज्यते । रात्रौ चरणे णमति तत्को निरीक्षते । न कोऽपीति भावः । खगरिमाणमहमेतादृशो गुणन्यदियमत्यन्तासक्ता मयीत्यादि । यद्वा नायिकोक्तिरियम् ॥ समीचीनस्य कोपो न भवति । भवति चेत्तदानावह एव स इति कश्चिद्वक्ति
न विमोचयितुं शक्यः क्षमा महान्मोचितो यदि कथंचित् ।
मन्दरगिरिवि गरलं निवर्तते ननु समुत्थाप्य ॥ ३१ ॥ नेति । महाश्रेष्ठः । पक्षे महापरिमाणशाली । क्षमा शान्ति भूमिं च । ननु निश्चितम् । 'न तु' इति पाठे नजि काकुः । एवं च महतः कोपो नोत्पादनीय इति व्यज्यते ॥ किंचित्समीचीनावलम्बने दुष्प्रभुसेवा न विधेयेति कश्चिदुपदिशति
नियतैः पदैनिषेव्यं स्खलितेऽनावहं समाश्रयति । । संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ।। ३१५॥
नियतैरिति । नियतैः पदैर्व्यवहारमार्गश्चरणविन्यासैश्च । स्खलिते प्रये चरणच्युतौ वा । गतिराश्रयो गमनं च । संक्रमकाष्ठं नद्यादौ पारगमनायोभयतीरो. पर्येकदारु स्थाप्यते तत् ॥