________________
१३४ 'काव्यमालां। कश्चित्कांचिदन्योक्त्या वधि
निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम् ।।
बत विविधास्तनुमन्नीर्मुग्धकुरङ्गीयमाचरति ॥ ३०९॥ . निजेति । खशरीरच्छायायां विश्रान्तिमासाद्य घर्मविपत्ति दूरीकर्तुम् । बतेति । खेदे । इयं मुग्धकुरजी विविधशरीरचेष्यः करोति । परं तु न तापोपशमनं भावीति भावः । एवं च खदेहच्छायारूपखाधीननायकमात्रावलम्बनेन मदनसंतापनिवारणाय विविधचेष्टाकरणेऽपि मूढनायिकायास्तव न तन्निवारणम् , अतोऽन्यन्नायकावलम्बनमेव मदनसंतापनिवारकमिति द्योयते । यद्वा सख्युपदेशोऽयम् । जातिवर्णनमेतदित्य॒जवः॥ कार्येणैव कारणप्रतिष्ठेति काचित्कांचिद्वक्ति
न हसन्ति जरठ इति यहल्लववनिता नमन्ति नन्दमपि । ' सखि स यशोदातनयो नित्यं कन्दलितकंदर्पः ॥ ३१० ।। न हसन्तीति । यद्यस्मात्कारणात्स प्रसिद्धो यशोदातनयः कृष्णो नित्यममिवर्धमानमदनः, अतो हे सखि, बल्लववनिता नन्दं जरठ इति न हसन्ति । न केवलं हास्याभावः, अपि तु प्रणमन्ति । एवं च कृष्णस्य कंदर्पशालित्वावगमेन नन्देऽपि जरठाभावनिर्णयो मूढस्त्रीणामपि तत्र किमु वाच्यं चतुराङ्गनानां कार्येण कारणखरूपज्ञानमिति व्यज्यते । यद्वा खकार्यमेव साधनीयमिति कांचित्काचिदुपदिशति । एवं च हास्याऽपि हास्याकरणेन प्रत्युत प्रणामादिना नन्दं परितोष्य मदनातिशयशालिश्रीकृष्णाद्यनुसरणं बल्लववनिता अपि कुर्वन्ति । त्वं त्वत्यन्तचतुरात एवमेव खकार्य साधयेति व्यज्यते । अथवा नायकार्थ श्वशुरादिसमाधानं त्वया विधेयमिति सखी श्वशुरादिदुःखवतीं नायिकामन्यनिदर्शनव्याजेनोपदिशति । एवं च परपुरुषीयरतिकलाप्रावीण्यमालक्ष्यैवमाचरन्त्यन्यास्तत्र खीयनायकपरितोषाय किं किं न विधेयमिति व्यज्यते ॥ सर्वात्मना त्रियः संरक्षणीया इति कश्चिद्वक्ति
नीता खभावमर्पितवपुरपि वाम्यं न कामिनी त्यजति ।
हरदेहार्धप्रथिता निदर्शनं पार्वती तत्र ॥ ३११ ॥ नीतेति । खसदृशीकृतापि दत्तखशरीरापि । एवं चालंकरणादिदानमेतद्ग्रेऽकिंचित्करमिति भावः । कामिनी वाम्यं कौटिल्यं वामशरीरभागित्वं च म व्रजति ।