________________
आर्यासप्तशती।
घवलनखलक्ष्म दुर्बलमकलितनेपथ्यमलकपिहिताक्ष्याः।
द्रक्ष्यामि मदवलोकद्विगुणाभु वपुः पुरद्वारि ॥ ३०६ ॥ | धवलति । श्वेतनखचिह्नम् । पुराणत्वादिति भावः । दुर्बलम् । विरहक्षीणदिति भावः । अकलितभूषणम् । असामर्थ्यादिति भावः । चूर्णकुन्तलाच्छादिनयनायाः संस्काराभावादिति भावः । वपुर्मद्विलोकनेन द्विगुणाश्रु । प्रेमभरादिति गवः । पुरद्वारि । अत्यन्तविरहेण धैर्याभावादिति भावः । द्रक्ष्यामीति काकुः । दिशिकाशंसनमेतत् ॥ असतां धर्मारम्भोऽप्यनर्थहेतुरिति कश्चिद्वक्ति
धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति ।
काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥ ३०७ ॥ धर्मेति । असाधूनां धर्मारम्भेऽपि । अपिनाधर्मारम्भकालीनवार्ता कि तव्येति व्यज्यते । परहिंसैव प्रयोजिका भवति । परहिंसामुद्दिश्यैवासतां वर्मारम्भ इति भावः । अत्र दृष्टान्तमाह-काकानां माने वृष्टिरकारणतां कारणाभावत्वं प्राप्नोति । काकैः स्नाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता धकारवज्या।
नकारव्रज्या।
कश्चित्कांचित्संकेतं वक्ति
नीरावतरणदन्तुरसैकतसंभेदमेदुरैः शिशिरे ।
राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥ ३०८ ॥ नीरेति । नद्यो जलन्यूनतयोच्चाचं यत्सैकतं तत्संघटनमांसलैः । तूलस्य कार्पासस्य पञ्जयो येषु तादृशस्थूलपटैरिव तीरैः शिशिरे राजन्ति । एवं च शिशिरे शीतबाहुल्येनान्यजनागमनशङ्काभावेनोच्चावचसैकतवत्तयान्यानंवलोकनीयत्वेन वायुनिवारकतया खस्य शीतबाधाजनकत्वेन च तूल्युतस्थूलपटोत्प्रेक्षया मृदुलस्पर्शवत्ताप्रतिपादनेन खतःसिद्धशय्यासत्त्वेन च सरित्तीरमेव संकेतस्थलमिति व्यज्यते॥