________________
काव्यमाला।
ताडयति सति । अनेनैव पलालं नाशितमिति धियेति भावः । गुप्तपरस्परकृताक्लोकनौ । निभृतपदमन्यज्ञानमीतिमावेदयति । हलिकाङ्गनादेवरौ । देवरो भर्तुः कनिष्ठभ्राता । देवरशब्दस्य ससंबन्धिकतया तदीयत्वं लभ्यते । एवं चैताकार्यकरणानहत्वं ध्वन्यते । हसतः । अस्मत्सुरतविमर्दवशात्पलालपुञ्जस्यैतादृश्यवस्थामविज्ञाय निरपराधिन वृषभमयं ताडयतीति धियेति भावः । 'पथिकवधू-' इति पाठे देवरेण तन्मातृगृहानयनावसर इदं कृतमिति काचित्कंचिद्वति । एवं चैतादृशाहानमनुचितमिति व्यज्यते ॥ महद्भिरेव खप्रतापः प्रदर्शनीयः, न लघुभिरिति कश्चिद्वक्ति
दीप्यन्तां ये दीत्यै घटिता मणयश्च वीरपुरुषाश्च ।
तेजः खविनाशाय तु नृणां तृणानामिव लघुनाम ॥ ३०३ ।। दीप्यन्तामिति । घटिता विधातृनिष्पादिताः ॥ इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता दकारव्रज्या ।
धकारवज्या। कस्याश्चित्सखी कंचिदन्योक्त्या वक्ति
धूमैरश्नु निपातय दह शिखया दहन मलिनयाकारैः ।
जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥३०॥ धूमैरिति । हे दहन । अनागमनादिना संतापकत्वात्सामर्थ्यविशेषवत्त्वावति भावः । दुर्गतगृहिणीत्यनेन सुरतसौख्याभावो द्योत्यते । शिशिरनिशीत्यनेन यथेच्छसुरतयोग्यत्वं निशि ध्वन्यते । एवं च त्वदीयदुष्टव्यवहारेणाश्रुसंतापमालिन्यजननेऽपि त्वां सा न त्यक्ष्यतीति ध्वन्यते ॥ सखी नायिकामुपदिशति
धैर्य निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः ।
प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता मरेषुरिव ॥ ३०५॥ धैर्यमिति । निधेहि कुरु । तस्य हृदि दूरं प्रविश । एवंप्रकारेण सोऽप्यस्य न्तासत्तो भावीति ध्वन्यते । क्षणधृतमुक्कात्वेनाविभेदकत्वं घोत्यते । 'इधुर्द्वयोः इत्यमरः ॥