________________
आर्यासप्तशती। सखी नायिका स्तौति
दरतरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दरहसिते ।
आस्तां कुसुमं वीरः मरोऽधुना चित्रधनुषापि ॥ ३०० ॥ दरेति । अक्षणि नेत्रे ईषच्चञ्चले सति, तवेषदुत्रमिते वक्षसि, मुखे च किंचिसितवति सति । एवं चाङ्कुरितयौवनात्वेन मुग्धात्वं द्योत्यते । कुसुमं पुष्पमावाम् । न किंचिदित्यर्थः । किं तु स्मरो वीरश्चित्रधनुषापि । अपिना शरसंग्रह मास्ताम् । एवं च कुसुमादेरनर्थकत्वेऽपि त्वदीयदरतरलनेत्रादिभिरेव चित्रधनुमानस्तु स्मर इति व्यज्यते । 'दरतरलेक्षिणि' इति पाठे संबुद्धिः । अथवा हे पश्चलेक्षिणि, तव वक्षसीषदुन्नमिते, वदने चेषद्धसितशालिनि सति पुष्पमास्तां चित्रधनुषाप्यालेख्यगतधनुषापि मरोऽधुना तवैतादृशयोक्नकाले वीरः । एवं च
समस्य कार्याक्षमत्वेन तद्रूपधनुषा सरस्य वीरत्वे न किंचिदाळमधुना त्वालेत्यागतधनुषापि स्मरस्य जगज्जयः सुकर इति भाव इत्यर्थः । यद्वा वीरोऽपि मरश्चित्ररूपधनुषाप्यास्ताम् । एवं चैतादृशरूपवत्या भवत्यैव मदनेन विजयः कर्त
क्यः । अतो मदनप्राक्तनधनुर्बाणाश्चित्रन्यस्ता इवानर्थकाः सन्त्विति ध्वन्यते। अथवा कुसुमं रजः । 'अपिः' अवधारणार्थकोऽधुनेत्यत्रान्वेति । एवं च त्वदीयैदृशयौवनप्रादुर्भाव एव विजयातिशयसाधनभूतया त्वया मदनधनुरनर्थकं जातम् , कमु वाच्यं पुष्पोद्गमोत्तरमिति द्योत्यते ॥ नायकसखी नायकं वक्ति
दुष्टसखीसहितेयं पूर्णेन्दुमुखी सुखाय नेदानीम् ।
राकेव विष्टियुक्ता भवतोऽभिमताय निशि भवतु ॥ ३०१ ॥ दुष्टसखीति । पूर्णेन्दुवन्मुखं यस्याः । पक्षे पूर्णेन्दुरेव वदनं यस्याः । दुष्टखीसहितेयं नायिका भद्रायुतपौर्णमासीवाधुना । दिन इत्यर्थः । तवाभिप्रायविषभूताय सुखाय निशि भवतु । यथा दिन एव भद्राया अतिक्रान्तत्वात्पूर्णिमा शि कार्याा तथा सख्या अन्यत्र रात्रावासक्ततयैतत्सांनिध्याभावेनावश्यं रात्री बदुपयोगायेयं भविष्यतीति द्योत्यते ॥ काचित्कांचिद्वक्ति
दलिते पलालपुझे वृषमं परिमवति गृहपतौ कुपिते । निभृतनिमालितवदनौ हलिकवधूदेवरौ हसतः ॥ ३०२॥ दलित इति । दलित इतस्ततः कृते सति कोपवति गृहपतौ हलिके वृषभ