________________
काव्यमाला।
त्वं गेह एव जारोपभोगं मुखेन करोषि नास्माकं स इत्यन्योक्त्या काचिकांचिदक्ति
दुर्गतगेहिनि जर्जरमन्दिरसुप्तैव वन्दसे चन्द्रम् ।
वयमिन्दुवञ्चितदृशो निचुलितदोलाविहारिण्यः ॥ २९७ ॥ दुर्गतगेहिनीति । दरिदकामिनि । दुर्गतपदेनोदरदरीभरणायेतस्ततः सर्वदा संचरणशीलत्वं व्यज्यते । तेन च जारानयनसौकर्यम् । जर्जरम् । एवं च कामकागमनयोग्यत्वं व्यज्यते । यन्मन्दिरं तत्र निद्रितैव । एवं चायासाभावो व्यज्यते । चन्द्रम् । एवं च संतापोपशामकत्वं ध्वन्यते । तेन चावश्यदर्शनीयत्वम् । वञ्चितपदेनातिपश्चात्तापवत्त्वमावेद्यते। निचुलिताच्छादिता या दोला तया यो बिहारस्तच्छालिन्यः । विहारिण्य इत्यनेन बहिर्गमनेऽप्यस्माकं निर्बन्ध इति घन्यते । एवं चैताहशास्मदीयभाग्यात्तव तादृशदारिद्यमेव सम्यगिति । तेन बास्माकमेतद्भाग्यं न सुखदमिति व्यज्यते ॥ त्वं न तथा चतुरेति वादिनी काचित्कांचिद्वक्ति
दीपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति ।
दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥ २९८॥ दीपेति । दीपदशा वर्तिः कुलाङ्गना च । विशेषदग्धभावेन चातुर्येण च । मलिनतां कज्जलादिमत्त्वं पापवत्त्वं च । दोषा अनुचितकारित्वादयः, दोषा रात्रिः॥ सखी नायिका वक्ति
दीर्घगवाक्षमुखान्तनिपातिनस्तरणिरश्मयः शोणाः ।
नृहरिनखा इव दानववक्षः प्रविशन्ति सौधतलम् ॥ २९९ ॥ दीति । दीर्घपदेन प्रकाशसंपादकत्वं वन्यते । गवाक्षो वातायनं तन्मुखनिःसृताः शोणाः । प्रातःकालीनत्वादिति भावः । सूर्यकिरणा नृसिंहनखा हिरण्यकशिपुवक्षःस्थलमिव सोधतलं प्रविशन्ति । नृहरिनखतुल्यताप्रतिपादनेन प्राणापहारसमदुःखदत्वं धन्यते । एवं च सूर्योदयः संवृत्तः, अत्त इतो निःसारणीयः प्रिय इति न्यज्यते । अत्र नृहरिपदसांनिध्यादानवपदं हिरण्यकशिपु प्रतिपादयति ॥