________________
आर्यासप्तशती।
न वीरेष्वतिकाठिन्यं द्योयते। तेन चान्यजन्यमानहत्वम् । जले हीरका न जन्तीति हीरकपरीक्षा ॥
अतिसलज्जतया छनतनुवैभवादन्यदालोकयन्तीं तन्मध्य एव किंचित्कटाक्षविक्षेण नायकमप्यवलोकयन्तीं नायको वकि
दरनिद्राणस्यापि सरस्य शिल्पेन निर्गतासून्मे ।
मुग्धे तव दृष्टिरसावर्जुनयन्त्रेषुरिव हन्ति ॥ २९५ ॥ दरेति । हे मुग्धे, दरेण भयेन । मुग्धाखभावसुलमेनेति भावः । निद्राणपापि। निलीनस्थापीत्यर्थः । निद्राणपदं निलीनत्वं लक्षयदसमर्थत्वं पराजेयत्वं नेमृतकार्यकारित्वं च व्यनकि । स्मरस्य कलाकौशलेन निर्गतासौ तव दृष्टिरर्जुनयबाण इव मे प्राणान्हन्ति । अपिनैतादृशमदनकौशलनिर्गतदृष्टेरेतादृशकार्यकात्वं तत्र किमु वाच्यमनिद्रमदनकौशलनिर्गतदृष्टेः कार्यकारित्वमित्यावेद्यते । यद्वा अपिः' निर्गतेत्यत्रान्वेति । एवं च निर्गतमात्रया दृष्ट्या प्राणापहरणं क्रियते तत्र ग वार्ता प्राप्तया क्रियमाणस्येति व्यज्यते । अथवासूनपीति योजनया देहादिमुच्चयः । पक्षे 'पत्री रोप इधुर्द्वयोः' इत्यभिधानादिषुशब्दस्य स्त्रीलिङ्गतया शलेन निर्गतेतीषुविशेषणम् । एवं चैतादृशत्वदीयावलोकनेनाहमतिविकलः, तो मामालिङ्गनादिना जीवयेति ध्वन्यते । अर्जुनोऽप्यन्यत्र विलोकयन्नन्यलक्ष्यजघानेति पुराणप्रसिद्धिः । 'शून्यम्' इति पाठे शून्यमभिसंधिरहितं निर्गता । क्षे आकाशम् ॥ दारिद्यमतिदुःखदमिति कश्चिद्वक्ति
दुर्गतगृहिणी तनये करुणार्दा प्रियतमे च रागमयी ।
मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥ २९६ ।। दुर्गतेति । दरिद्रकामिनी । दुर्गतपदेन धात्र्यादिकरणसामर्थ्याभावो व्यज्यते। नये । एवं चातिवात्सल्यमावेद्यते । करुणाशालिनी । नायकसझे खन्यहान्या नियस्य दुःखं भविष्यतीति धियेति भावः । मुग्धा किं विधेयमिति निश्चयशून्या ।
१. 'सर्वद्रव्यामेवं लघ्वम्मसि तरति रश्मिवसिग्धम् । तडिदनलशकचापोपमं च जिं हितायोक्तम् ॥' इति बृहत्संहिता (८०१४).