________________
१३०
काव्यमाला ।
तस्येत्यनेन नायकेऽन्यथाभाषित्वं द्योत्यते । कस्तव समाश्वासः । दूरनिखातो नखाङ्कः । दूरप्रवासे गम्भीरनखक्षतस्य कामशास्त्रे विहितत्वादिति भावः । तं नायकं चिरप्रवासिनं कथयति । एवं च सत्वरमयमायास्यतीति ज्ञानेनान्यनायकसंगतिमकुर्वाणा भ्रान्तासि त्वमिति व्यज्यते ॥
सखी नायिकां वक्ति
दयितस्पर्शोन्मीलितघर्मजलस्खलितचरणनखलाक्षे ।
गर्वभमुखरिते सखि तच्चिकुरान्किमपराधयसि ॥ २९२ ॥
दयितेति । प्रियस्पर्शप्रसृतखेदजलविचलितचरणनखलाक्षे गर्वभरेण मुखरीकृते सखि नायकशिरोरुहान्किमित्यपराधयसि त्वत्सात्त्विकभावरूपखेदेनैव चरणनखलाक्षापगमे प्रियप्रणतिसं लमशिरोरुहैर्लाक्षापगतेति मिथ्या तमपराधयसीति भावः । एवं च तवैवायमपराध इति व्यज्यते ॥
कविदुष्टपुत्रदुःखितो गेहिनीं वक्ति
दुष्टग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।
भौमेनेव निजं कुलमङ्गारकवत्कृतं येन ॥ २९३ ॥
दुष्टेति । हे गेहिनि तेन । दुष्टो ग्रह आग्रहो यस्य तेन । पक्षे दुष्टश्चास प्रहश्च तेन । प्रजातेनोत्पन्नेन । अत्रोपसर्गस्तथा नोपयोगीत्याभाति । कुत्सितपुत्रेण । पक्षे कुः पृथ्वी । किम् । न किंचित्फलमित्यर्थः । येन मङ्गलेनेव स्वीयं कुलमङ्गारकवत्कृतम् । प्रज्वालितमिति भावः । पक्षे 'अङ्गारकः कुजो भौमः इत्यमरः । एवं च दुष्टपुत्रवत्त्वापेक्षयाऽपुत्रतैव सम्यगिति व्यज्यते ॥ आपद्यपि शूराणां न नीचकार्यकारित्वमिति कश्चिद्वति
दर्शितचापोच्छ्रायैस्तेजोवद्भिः सुगोत्रसंजातैः ।
हीरैरप्खपि वीरैरापत्खपि गम्यते नाघः ॥ २९४ ॥ दर्शितेति । प्रकटीकृत इन्द्रधनुर्वदुच्छ्रायः कान्त्याधिक्यं धनुष औन्नत्यं च । 'ताप' इति पाठे कान्तिः प्रतापश्च । तेजः प्रकाशकत्वं सामर्थ्य च । गोत्रः पर्वतोऽन्वयश्च । हीरैर्वजैः । अप्खपि । 'अप्खिन' इति क्वचित्पाठः । वीरैरापत्खपि नाचो गम्यते । जलसाम्यदर्शनेनापदि मान्द्यसंपादकत्वमावेद्यते । हीरसमताप्रदर्श
1