________________
आर्यासप्तशती। १२६ कश्चित्तंचिद्वति
दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितस्तनया।
हृदयं करेण ताडितमथ मिथ्या व्यक्षितत्रपया ॥२८८ ॥ दृष्टमिति । अथेसनन्तरं हृदयं करेण ताडितम् । अनुचितं मया कृतमिति दर्शनार्थमिति भावः । जातिवर्णनमेतत् ॥ सखी नायिका वकि
दर्शितयमुनोच्छाये विनममाजि वलति तव नयने ।
क्षिप्तहले हलधर इव सर्व पुरमर्जितं सुतनु ॥ २८९ ॥ दर्शितेति । हे सुतनु, दर्शितो यमुनात उच्छ्राय आधिक्यं यस तस्मिन् । यामत्वादिति भावः । पक्षे दर्शितयमुनाधिक्ये । मथुरामण्डले रामहलेन प्रवाहस्य परीतकरणेन जलाधिक्यादिति भावः । कटाक्षशालिनि । पक्षे कोपवशात्कुटिलकुटिमति । तव नयने क्षिप्तहले हलधर इव बलदेव इव वलति सति समग्र गरमर्जितं खाधीनीकृतम् । पक्षे युधिष्ठिरं प्रति कोपाद्धस्तिनापुरस्य हलेन विपतिकरणोद्यमादिति भावः। एवं च तव कटाक्षमात्राधीनाः सर्वेऽपि युवान इति यिकाधिक्यकथनेनान्यनायिकानिन्दा द्योत्यते ॥ विरहिणी सखीं वति
दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः।
व्यथयति विरहे बकुलः क परिचयः प्रकृतिकठिनानाम् २९० दयितेति । दयितेन प्रार्थितोऽपि दुर्लभो मुखासवकणसेकस्तेन सुकुमारः जातपल्लवादिः । 'शोकं जहाति बकुलो मुखसीधुसिक्तः' इति प्रसिद्धिः । प्रकृतिठिनानाम् । काष्ठत्वादिति भावः। यद्वा 'नायकप्रार्थनावगणनापुरःसरमदिरागण्डूसंपादितपल्लवादिरयं बकुलो विरहे मां कथं व्यथयति' इति नायिकाप्रश्ने क्वेत्यापुत्तरं सख्याः ॥ सखी नायिकां वक्ति
द्वित्रैरेष्यामि दिनैरिति किं तद्वचसि सखि तवाश्वासः । ।
कथयति चिरपथिकं तं दूरनिखातो नखाहस्ते ॥ २११॥ विरिति । द्वित्रिसंख्याकैदिवसैरहमागमिष्यामीति तस्य नायकस्य वचसि ।
आ० स०