________________
R4
काव्यमाला ।
असमयरताभिलाषिणं नायकं नायिका वक्ति
द्वारे गुरवः कोणे शुकः सकाशे शिशुर्गृहे सख्यः ।
कालासह क्षमस्य प्रिय प्रसीद प्रयातमहः ॥ २८५ ॥
द्वार इति । द्वारे गुरवः । एवं च बहिर्गमनानर्हत्वं दर्शनानर्हत्वं च व्यज्यते । कोणे शुकः । एवं च वचनरचनाशीलशुकाधिष्ठानेन कोणदेशेऽपि रतानर्हत्वं 'चन्यते । सकाशे शिशुः । एवं च बालकापसारण एतत्कोलाहलादिना निकटवर्तिगुरुजनागमन संभावनया नैतदपि स्थलं रतयोग्यमिति द्योत्यते । गेहे सख्यः । एवं च तासामपि तव लज्जाकरणौचित्येन गृहमपि रतानर्हमिति व्यज्यते । कालासह सुरतोत्सुकेत्यर्थः । प्रिय । एवं च त्वदाज्ञालङ्घनानर्हा हमित्यावेद्यते । प्रसीद । तत्फलमाह — क्षमख । समयाभावादिति भावः । ननु कदा समयो भावीत्यत्राह - अहः प्रयातं गतमेव । एवं चागतप्राया निशैव सुरतयोग्येति ध्वन्यते ॥
सखी नायिकामुपदिशति -
दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् ।
प्रियमालिङ्गति गोपी मन्थश्रममन्थरैरङ्गैः ॥ २८६ ॥
:
दधीति । दधिकणरूपमुक्ताफलानामलंकरणं ययोः । श्वासेन । श्रमजन्येनेति भावः । उच्चौ यौ स्तनौ तत्समर्पणाभिरामं यथा स्यात्तथा गोपी दधिमथनश्रमनिबल्मङ्गैः प्रियमालिङ्गति । एवं च शृङ्गारादिरचनां विनापि श्रममगणयित्वैव तथाविधज्ञानविधुरापि गोपाङ्गना स्वयं प्रियमालिङ्गति, त्वं त्वत्यन्तचतुरापि प्रियालिङ्गने विलम्बमावहसीति भ्रान्ता त्वमिति व्यज्यते । तेन च नैवं विधेयमिति । यद्वा यथैककार्यनियुक्तापि गोपी तत्समयेऽपि प्रियालिङ्गनं करोति तथा त्वयापि विधेयमिति व्यज्यते ॥
नायिका सखीं वक्ति
दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता ।
मोहयता शयनीयं ताम्बूलेनेव नीतास्मि ॥ २८७ ॥
दलितेति । हे सखि, भञ्जितक्लेशेन । पक्षे चूर्णीकृतपूगवता । कण्ठलमेन रागं प्रीतिम् । पक्षे लौहित्यम् । आवहता । मोहयता विषयान्तरज्ञानाभावं कुर्वता । पक्षे भ्रान्ति जनयता । प्रियेण ताम्बूलेनेव शयनं नीतास्मि । एवं च प्रियसङ्गे मम न किमप्यन्यविषयकं ज्ञानमिति व्यज्यते ॥