________________
आर्यासप्तशती।
चातुर्यवशात्साधुतामवलम्बमानं मैनमवगणयन्त्वित्सन्योक्त्या कश्चिदुपदिशति
दाक्षिण्यान्प्रदिमानं दधतं मा भानुमेनमवमंस्थाः ।
रौद्रीमुपागतेऽस्मिन्कः क्षमते दृष्टिमपि दातुम् ॥ २८२ ॥ दाक्षिण्यादिति । दाक्षिण्याद्दक्षिणदिक्संबन्धादित्यर्थः । पक्षे चातुर्यात् । मृदुत्वमसंतापकत्वम् । पक्षे साधुत्वम् । भजन्तमेनं भानुम् । पक्षे सूर्यतुल्यतेजखिनमित्यर्थः । मावगणयेथाः । अस्मिनौद्रीमीशानी दिशम् । पक्षे रोषमित्यर्थः । प्राप्ते दृष्टिमपि दातुं कः क्षमते । न कोऽपीत्यर्थः । एवं चातिसंतापकत्वं द्योत्सते। यद्वा रौद्री मध्याहवेला ॥ कश्चित्पथिकः पथि व्याधबाणाहतिगच्छत्प्राणां हरिणीमालोक्य सखायं वति
दृष्टयैव विरहकातरतारकया प्रियमुखे समर्पितया ।
यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥ २८३ ॥ दृष्टयैवेति । भिल्लशरपीडिताया हरिण्या वियोगमीतनेत्रकनीनिकया । एवं च मरणमीयभावो द्योत्यते । अत एव प्रियवदनस्थापितया दृष्टयैव न मुखादिद्वारा प्राणाः प्रयान्ति । एवं च पश्वङ्गनाया अपि मरणकारणबाणव्यथातोऽपि विरहव्यथा दुःसहा । किमु मनुष्याङ्गनाया इति व्यज्यते । तेन च यो हि नायिका विहाय परदेशे गच्छति स मृगतुल्यः पशुरिति । यद्वा नायकादपि नायिकाया विरहमीतिरिति व्यज्यते ॥ खलसंगतिर्न विधेयेति कश्चिदुपदिशति
दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः ।
आश्लेषो बालानां भवति खलानां च संमेदः ॥ २८४ ।। दूरेति । दूरे स्थापितं हृदयं वक्षःस्थलम् । पक्षेऽन्तःकरणम् । येन सः। गूढ़ रहस्यमन्तःकरणविषयीभूतम् । पक्षे मन्त्रादि । यस्य सः । निकाममत्सन्तमाशका भीतिः । पक्षे विश्वासाभावः। यस्य सः। क्वचित् 'गूढरहस्यं निकामसाशकः' इति पाठः । गूढरहस्यमसन्तरहस्यम् । बालानां मुग्धाइनानामा लेष आलिङ्गनं खलानां च संमेदः सहो भवति । एवं बोभयोः साम्यं व्यज्यते ॥