________________
१२६
काव्यमाला
नायिकासखी नायकं वक्ति
द्राषयता दिवसानि त्वदीयविरहेण तीव्रतापेन ।
ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ।। २७८ ॥ द्राघयतेति । दिवसानि । 'वा तु क्लीवे दिवसवारौं' इत्यमरः । महत्कुर्वता । दुःखोद्रेकात् । तद्दिनमानमाहात्म्यादलसत्वादिति भावः । तीवस्तापः संतापो यस तेन । पक्षे तापो धर्मः । तस्यास्त्वदीयविरहेण नलिन्या ग्रीष्मेणेव जीवनमायुः । पक्षे जलम् । अल्पीकृतम्, न तु नाचितम् । एवं च यथातथैतत्समयोऽतिवाहितखया परं तु वर्षासु प्राणाः परित्याज्या इत्यवगत्य त्वयानुप्राया सेति व्यज्यते ॥ दुष्टसंसर्गादपि साधोः साधुत्वं नापैतीति कश्चिद्वक्ति
दुर्जनसहवासादपि शीलोत्कर्ष न सज्जनस्त्यजति ।
प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः ।। २७९॥ दुर्जनेति । पर्वामावस्या । अमायां चन्द्रस्य सूर्यान्तर्गतत्वमिति ज्योतिवित्प्रवादः ॥ सखी नायिका वक्ति
दयितप्रहितां दूतीमालम्ब्य करेण तमसि गच्छन्ती । ' खेदच्युतमृगनामिदूरादौराशि दृश्यासि ॥ २८०॥
दयितेति । प्रियप्रेषितां बूती करणालम्ब्यान्धकारे गच्छन्ती खेदगलितकस्तूरिका त्वं गौराङ्गि दूरादृश्यासि । दयितदूतीत्वेनातिप्रियतया तत्करस्पर्शमात्रादेव संजातसात्विकभावखेदपूरदूरीभूतान्धकाराभिसरणानुकूलमृगमदवत्तया गौरशरीरतया दूरादपि दृश्यासीति भावः । एव च नायकविषयासक्तिविशेषो वन्यते ॥ काचित्कांचिद्वक्ति
दयितागुणः प्रकाशं नीतः खस्यैव वदनदोषेण ।
प्रतिदिनविदलितवाटीवृतिघटनैः खिद्यसे किमिति ॥२८१॥ • दयितागुण इति । खस्यैव मुखदोषेण नायिकागुणः प्रकटीकृतः । प्रतिदिनं विघटितगृहावरणसंपादनैः किमिति खेदं प्राप्नोषि । एवं च त्वदुक्तनायिकागुणश्रवणेनासक्त्या लोकेनैव रात्रौ वृतिघटनं विधीयत इति व्यज्यते । तेन च त्वदीय एवायमपराध इति । तेन च कदापि नायिकामुणवर्णन विधेयमिति ॥