________________
आर्यासप्तशती।
१२५ सखी नायिका वक्ति
तव वृत्तेन गुणेन च समुचितसंपन्नकण्ठलुठनायाः ।
हारसज इव सुन्दरि कृतः पुनर्नायकस्तरलः ॥ २७५ ॥ तवेति । हे सुन्दरि। एवं चासकियोग्यत्वं व्यज्यते। समुचितप्राप्तालिङ्गनायाः। पक्षे समुचितं धनिनः कण्ठलुठनं यस्याः। हारस्रज इव मुकमालाया इव तव वृत्तेन शीलेन । पक्षे वर्तुलेन । चातुर्यादिगुणेन । पक्षे सूत्रेण । नायक: कान्तः । पक्षे मुख्यमणिः। तरलश्चञ्चलः । पक्षे हारमध्यगः। पुनर्वारंवार कृतः। एवं च त्वच्छीलगुणेष्वासक्त्या खधैर्य परित्यज्य नायकस्त्वामेवानुचिन्तयनास्त इति व्यज्यते॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता तकारव्रज्या ।
दकारव्रज्या नायकोऽधुना गृहिणीमानापनोदनाय प्रणामादि करिष्यतीति दुःखितां सपनी तत्सखी वक्ति
दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोलतलम् ।
चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्याम् ॥ २७६ ॥ दर्शनेति । दर्शनविनीतमाना। एवं च गुणोत्कर्षशून्यत्वं ध्वन्यते । गृहिणी। हर्षेणोल्लसत्कपोलतलं मुखम् । खस्येति भावः । चुम्बननिषेधव्याजाद्धस्ताभ्यामाच्छादयति । एवं च त्वां विहायागतं नायकमवलोक्य चिरकालीनबहपेक्षितदर्शनसंजातहर्षसमुदितपुलकगोपनेन खस्य सौभाग्याविष्करणायैवमकरोन वास्तवमानदाय तस्यामिति द्योत्सते । तेन च नायकप्रणामादीति ॥ सखी नायिका वकि
देहस्तम्भः स्खलनं शैथिल्यं वेपथुः प्रियध्यानम् ।
पथि पथि गगनाश्लेषः कामिनि कस्तेऽमिसारगुणः॥ २७७ ॥ देहेति । हे कामिनि, गतिनिरोधस्खलनशैथिल्यकम्पप्रियतमचिन्तनाशालिजनानि मार्गे मार्गे, अतस्तेऽभिसारगुणः कः । एवं चाभिसारे सर्वमेतद्विनरूपम्, अतस्त्वयैतन विधेयमिति ध्वन्यते तेन चासन्तासचिर्नायके तवास्तीति ।।