________________
काव्यमाला ।
कश्चिद्विपत्तौ कंचिदुद्दिश्य गतः, तेन च संभाषणादिविषयतामप्यनीतः कंचिदन्योक्त्या वक्ति
तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः सः ।
किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥ २७२ ॥ तमसीति । निबिडेऽन्धकारे, कठिनतरे पथि, उल्का मुखे यस्य तं जम्बुकं प्रपन्नाः स्मः। एतन्मुखप्रकाशेनायं मार्गों विलङ्घनीय इति धियेति भावः । हे सखे । एवं च दुःखकथनार्हत्वं द्योत्यते । सोऽपि मुखं मुद्रयित्वैव स्थितः। किमत्र कुर्मः। एवं चास्माकं दुर्दैववशानीचावलम्बनमपि कर्तुमुद्यतानां न तत्र शब्दमात्रावलम्बनं किमुतान्यदिति ध्वन्यते ॥ कश्चित्कांचिदङ्गनां प्रति वक्ति
त्वामभिलपतो मानिनि मम गरिमगुणोऽपि दोषतां यातः ।
पछिलकूलां तटिनी पिपासतः सिन्धुरस्येव ॥ २७३ ॥ त्वामिति । हे मानिनि । मानः प्रतिष्ठा । त्वदभिलाषवतो मम पङ्किलतीरां नदीं गन्तुमिच्छतो गजस्येव गौरवगुणोऽपि दोषत्वं प्राप्तः । एवं च त्वत्सदने ममागमनस्यौचित्येऽपि दुष्टप्रतिवेशिभयात्प्रतिष्ठावतोऽन्यत्खल्पजनवदागमनमसंभवीति खमहत्त्वं महद्दोषत्वेन गणयामि, अतस्त्वयैव मत्सदने समागन्तव्यमिति प्रार्थयामीति ध्वन्यते । यद्वा पराङ्गनां मानिनी प्रति कश्चित्संदेशं प्रेषयति। एवं च मम वारंवारागमने दुष्टत्वत्प्रतिवेशिजनैरवश्यं ज्ञातव्यम् । अतो मानं त्यक्त्वा त्वयागन्तव्यमिति व्यज्यते ॥ परपुरुषसंयोगाभिलाषिणीं काचिद्वतितिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च ।
शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥ २७४ ॥ तिमिर इति । अन्धकारेऽपि दूरतो दृश्या । श्वैत्यादिति भावः । आलिङ्गने कठिना। एकान्ते मुखरा। शहविकारकरणपङ्किः। गृहपतेर्न तु प्रियस्य । मलकेन सह स्फुटतु ।, एवं च पतिमरणोत्तरं सुखेन मया खेच्छाविहारो विधेय इति व्यज्यते । . . . . . . . . .'