________________
आर्यासप्तशती।
कंचन महान्तं गुणिनं सीदन्तं कश्चिदन्योक्त्या वकि
ते श्रेष्ठिनः क संप्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः ।
ईषां वा मेदि वाधुनातनास्त्वां विधित्सन्ति ॥ २६९ ॥ ते श्रेष्ठिन इति । हे शक्रध्वज, यैस्तवोच्छ्रायः कृतस्ते श्रेष्ठिनो वणिजः संप्रति क । न सन्तीति भावः । अधुनातनास्त्वामीषां लागलपद्धति मेढिं स्तम्भ वा करिष्यन्ति । एवं चाधुनातनेषु मूर्खत्वं व्यज्यते । एवं च प्राक्तनगुणज्ञसद्त्तलोकाभावात्तवैतादृशाः क्लेशा इति व्यज्यते। यद्वा प्राक्तनलोकाभावान तव तथाविधप्रतिष्ठादीति कश्चित्कंचिदन्योक्त्या वक्ति ॥ प्रेम्णो भङ्गे पुनः संधानं न तथेति काचित्कांचिद्वकि
तानवमेत्य च्छिन्नः परोपहितरागमदनसंघटितः ।
कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥ २७० ॥ तानवमिति । तानवं खल्पत्वम् । पक्षे कार्यम् । प्राप्य च्छिन्नः। परेणान्येनोपहितः कृतो रागोऽनुरागो यस्य स चासौ मन्मथसंघटितश्च । कस्यचिद्वचनेन मन्मथविकारेण च पुनः कृत इति भावः । पक्षे परेणान्येन द्रव्येणोपहितो रागो रजनं यस्यैतादृड्यदनेन मधूच्छिष्टेन संधानं नीतः कामिनीनां प्रेमा कर्ण इव निर्भर आधिक्यशून्यः । पक्षे भरासहः । न शोभते । 'विराजते' इति पाठे काकुः । एवं च त्वया तथा न विधेयं यथा प्रेमभङ्गो भवेदिति वन्यते ॥
'तथाविधगुणाभाववति महन्नामकरणं विडम्बनमात्रफलकम्' इति कश्चित्कंचिद्वति
तस्मिन्गतार्द्रमावे वीतरसे शुण्ठिशकल इव पुरुषे ।
अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥ २७१ ॥ तसिन्निति । तस्मिन्गत आर्द्रभावः करुणा । पक्षे आईत्वम् । तस्मिन्नपि । अपिरग्रेऽप्यन्वेति । वीतो रसः शारादिः । पक्षे पुराणत्वाद्गततिकादिरसे। 'गताभावे इत्यस्य विवरणं वीतरसे' इति ऋजवः । भूतिरैश्वर्यम् । पक्षे भस्मादि । तद्वति । मलिने पापवति । पक्ष उज्वलत्वाभाववति । पुरुष शुण्ठिशकल इव । शकलपदेनानुपयुकलं ध्वन्यते । नागरशन्द्रो विडम्बनाय । नगरे भवो अगरः । पक्षे 'अथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वमेषजम् ॥' इमरः॥