SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२२ काव्यमाला । कथमधन्यैरस्मत्सदृशैः सा द्रष्टुं शक्येति लोकगोपनार्थमिति भावः । सानन्द इव । तदानीं त्वत्सांनिध्याभावेऽपि त्वत्संनिधानजनितानन्द इव । सावहित्य इव । केनाप्यानन्दचिह्नं न विज्ञेयमिति धियाकारगोपनवानिव । एवं चाकारगोपनस्याशक्यत्वं द्योत्यते । मुखरः । वारंवारं त्वत्कथासूत्तरप्रत्युत्तरकारी । एवं च यदि न तव तेन सह संगतिस्तदृग्व्यवहारस्त स्मिन्कथं भवेत् । अतस्त्वयास्मान्प्रतार्य तेन सह संगतिः कृतेति ध्वन्यते । 'पुरतः' इति पाठे सखीनामस्मद्विधानां पुरतस्त्वद्वदनविनिःसृतमद्गोष्ठीषु सनिन्दसानन्दसावहित्य इव मुखरो वक्तुं प्रौढः । अतः खलु त्वया कृतार्थीकृतः । एवं च त्वया सहैतत्संगतिरस्ति । कथमन्यथा त्वद्वदनविनिःसृतविचित्रवार्ताविज्ञोऽयमिति ध्वन्यते । यद्वा सखीनां पुरतः सनिन्दसानन्दसावहित्थ इव त्वद्विषयकवार्तासु मुखरः । सुभगः । एवं च संगतियोग्यत्वं ध्वन्यते । कृतार्थीकृत इति काक्वा प्रश्नः । एवं चैतादृशोऽहनिंशमस्मत्समक्षं त्वदेकवार्ताविधानप्रवणः सुभगः कथमद्यापि नानुगृह्यते । अपि तु झटित्यनुइति द्योत्यते । 1 नायिकासखी नायकं वक्ति त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः । दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥ २६७ ॥ त्वयति । हे सुन्दर । एवं च स्पृहणीयत्वं ध्वन्यते । त्वयि मार्गे चलति सति त्रृतिरावरणं तद्रन्ध्रनिर्गता तस्या दृष्टिः शैवालप्राबल्यादीषच्चञ्चला चासौ भिन्नशैवलजाला च शफरीब विस्फुरति । एवं च त्वय्यासता सेति व्यज्यते ॥ नायक नायिकां वक्ति ते सुतनु शून्यहृदया ये शङ्खं शून्यहृदयमभिदघति । अङ्गीकृतकरपत्रो यस्तव हस्तग्रहं कुरुते ॥ २६८ ॥ तइति । हे सुतनु, शङ्खं हृदयविहीनम् । यद्वा शून्यं बिन्दुरूपमवकाशरूपं वा हृदयं यस्य । एवं च प्राणशून्यत्वं व्यज्यते । वदन्ति ते हृदयशून्याः । मूर्खा इत्यर्थः । यः शङ्खोऽङ्गीकृतक्रकचस्तव करग्रहं कुरुते । एवं च यद्ययं हृदयशून्यः स्यात्तर्हि त्वत्करग्रहाय करपत्र विदारणं कथं कुर्यादिति भावः । एवं व प्रयागे करपत्रकर्तनादिना येन शरीरं त्यज्यते तेनैव त्वं प्राप्येति व्यज्यते ॥
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy