________________
आयोसतशती।
कश्चिद्वयस्सं वक्ति
निबिडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पितव्यजनाम् ।
तां स्निग्धकुपितदृष्टिं स्मरामि रतनिःसहां सुतनुम् ॥ ३२० ॥ निबिडेति । अत्यन्तसंघटितोरुद्वयाम् । सुरतक्लेशादिति भावः । निःश्वासखघखनदत्तव्यजनाम् । खेदापनोदार्थ गृहीतव्यजनस्य चालनासामर्थ्यादिति भावः । नग्धत्वं च सौख्यात्कुपितत्वं च क्लेशवशादिति भावः । यद्वा रतनिःसंहाङ्गत्वादनाग्रहादूरुघटनं प्रथमगृहीतव्यजनेन स्तनपिधानमिति भावः ॥ गुणेष्वत्यन्तं यत्नो विधेय इति कश्चित्कंचिदुपदिशति
निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि ।
पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ॥ ३२१ ॥ | निर्गुण इति । गुणाश्चातुर्यादयः । एकार्थप्रतिपादकौ। अमुमेवार्थमान्तरयासेन द्रढयति-गुणशून्यम् । 'मौर्वी ज्या शिजिनी गुणः'। निर्जीव निर्गता जीवा यस्मात्तम् । 'जीवा ज्या शिजिनीयपि' इत्यभिधानात् । यस्माद्वदन्ति । एवं च निर्गुणजीवनापेक्षया मरणमेव सम्यगिति द्योत्यते ॥ नायिका नायकचित्तं व्याक्षिपति
निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु ।
अयमुगृहीतबडिशः कर्कट इव मर्कटः पुरतः ।। ३२२ ।। निजेति । तरुणेत्यनेन खतो दृढत्वेऽप्येतादृशचित्तव्याक्षेपेणातिदाळ भावीति व्यज्यते। 'बडिशं मत्स्यवेधनम्' इत्यमरः। कर्कटः । 'स्थात्कुलीरः कर्कटकः' इत्यमरः । मर्कटो लूता । 'लूता स्त्री तन्तुवायोर्णनाममर्कटकाः समाः' इत्यमरः। यद्वात्रागतं स्थितं मयेति वादिनं नायकं नायिका वकि । एवं च सूक्ष्मत्वेन त्रुटनाहत्वेऽपि तदभावान त्वत्संचरणमिति व्यज्यते । अथवा केनाप्यत्र नागम्यत इति संकेतस्थलमिदमिति ध्वन्यते ॥
प्रामीणवसतिशालितयेयं न तथा गुणशालिनीति विभावयन्तं कंचन नायिका सखी वक्ति
नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः ।
कस्तूरी न मृगोदरवासवशाद्विसतामेति ॥ ३२३ ॥ नागरेति । हे नागर, असौ सुतनीतिरिव । प्रामो नगरादिभिर्मिनः । पक्षे