________________
आर्यासप्तशती ।
११९
कश्चिनायिकां स्तौति -
तल्पे प्रभुरिव गुरुरिव मनसिजतन्त्रे श्रमे भुजिष्येव । गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा व्रीडा ॥ २५७ ॥
तल्प इति । प्रभुवि । प्रौढिमत्त्वादिति भावः । तत्रं शास्त्रम् । गुरुरिव । मन्मथकलाकलापोपदेशकत्वादिति भावः । भुजिष्या दासी । एवं चैतादृशी नायिका नान्येति ध्वन्यते । तेन च तद्वत्तया खाधिक्यम् ॥ नायकः पुष्पितां नायिकां वक्ति
त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः । छायेवापसरन्ती भिरया न निवार्यसे यावत् ॥ २५८ ॥
त्वमिति । संमुखं व्रजतः । चुम्बनार्थमिति भावः । मोक्तुमशक्तस्य । आसक्तिविशेषादिति भावः । ममापसरन्ती । स्पर्शानर्हत्वादिति भावः । भित्त्या कुड्यादिना यावन्न निवार्यसेऽपसरणप्रतिबन्धवती न क्रियसे तावत्त्वं छायेवालभ्या । एवं व भित्तिप्रतिबद्धापसरणां त्वां विना चुम्बनदानं न विमोचयामीति व्यज्यते ॥ वसन्ते मदनवेदनासत्येति कश्चिद्वति
तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् । मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥ २५९ ॥ तपसेति । तपसा तपश्चर्यया । पक्षे माघमासेन । क्लेशिते । कार्यं गमित इत्यर्थः । पक्षे क्लेशिते । निस्तेजस्कत्वादिति भावः । फाल्गुनेऽर्जुने । पक्षे मासि । एष मदनो मिहिरश्च । खलु निश्चयेन प्रौढबलोऽपि । अपिना प्रौढबलफलजनकचाभावो द्योत्यते । नासीत् । तपस्याविमेदायेन्द्रप्रहितोर्वश्याद्यप्सरोऽवगणनादिति भावः । पक्ष उत्तरायणारम्भात्प्रौढतेजसो ऽभावादिति भावः । अधुना मधुना वसन्तेन । पक्षे चैत्रेण । मधुपदमुन्मादजनकतां व्यञ्जयति । उत्कृष्टोन्मादशालिनं मदनं सूर्यमिव कः सहते । न कोऽपीत्यर्थः । एवं च वसन्तकालीनमदनवेदनात्यतमसह्येति ध्वन्यते ॥
1
सखी नायिकाविरहं नायकं प्रति वक्ति
त्वद्गमनदिवसगणनावलक्षरे स्वामिरविता सुभग । गण्डस्थली व तस्याः पाण्डुरिता भवनभिचिरपि ॥ २६० ॥ वनमनेति । हे सुभग । एतादृशनायिकाप्रेमसत्त्वादिति भावः । त्वद्गमनादि -