________________
११८
कायमान।
कण्टकसाम्येन नायिकाचित्तवेधक्षमत्वं नायके द्योत्यते। अञ्चलसाम्येन नायिकाचित्ते सूक्ष्मत्वं ध्वन्यते । मारुतसाम्येन सर्वगततया निवारणानहत्वं ध्वन्यते ॥
यद्यपि त्वया भूयसी लजा क्रियते तथापि बहुवस्त्वय्यासका इति सखी नायिकामन्योक्त्या वकि
त्वमसूर्यपश्या सखि पदमपि न विनापवारणं अमसि ।
छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥ २५४ ॥ त्वमिति । हे छायारूपे सखि, त्वं सूर्यदर्शनं न करोषि । छायाया अघोमुखत्वान सूर्यदर्शनम् । अपवारणमन्तधि विना पदमपि न भ्रमसि छायाप्यन्तधि विना न भवति । मूर्तिमन्तः । सर्वेऽपीत्यर्थः । पक्ष इयत्तावच्छिन्त्रपरिमाणशालिनः । त्वां न मुञ्चन्ति । इह किं विधेयम् । एवं चात्र न ममापि प्रतीकार. स्फुरणमिति भावः । एवं चैतादृशलजाकरणमनर्थकमिति द्योत्यते ॥ नायिकाविरहदुःखातिशयं सखी नायकं वकि
तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे ।
बिसिनीव माघमासे विना हुताशेन सा दग्धा ॥ २५५ ॥ तवेति । विस्तारिता रात्रिर्येन तस्मिन् । निद्राविरहादिति भावः । पक्षे रात्रि. मानस्याधिक्यादिति भावः । जनितश्चन्द्रचन्दनद्वेषो येन तस्मिन् । उद्दीपकत्वादिति भावः । पक्षे शीतलत्वादिति भावः । तव विरहे माघमासे बिसिनीव सा हुताशेनामि विना दग्धा । हिमेन बिसिनीविनाशनमिति लोकप्रसिद्धिः। एवं चैतादृशैतत्कालीननायिकावस्थास्ति, अतोऽवश्यं भवतानुप्राह्या सेति व्यज्यते ॥ सखी नायिका वकि
तरुणि त्वचरणाहतिकुसुमितकडूल्लिकोरकप्रकरम् ।
कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥२५६॥ तरुणीति । हे तरुणि । एवं च नायकासक्तियोग्यत्वं ध्वन्यते । त्वचरणह-। ननजातकुसुमाशोककलिकासमूहम् । 'कलिका कोरकः पुमान्' इत्यमरः । कुटिलाचरणा सपनी शोकविकलापि न पिबति । अशोककलिकारसपानेन शोकहानिर्भवतीति लौकिकम् । एवं च शोककालेऽप्येवादशदेषवत्त्वेन समीचीनकाले किं किं तया न विधेयम्, अतस्त्वया सर्वप्रकारेण मानायपहाय नायकोऽनुरजनीय प्रति व्यज्यते।