SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। काचिन्नायिका सखी वक्ति त्यको मुञ्चति जीवनमुज्झति नानुग्रहेऽपि लोलत्वम् । किं प्रावृषेव पद्माकरस्य करणीयमस्य मया ॥ २५० ॥ त्यक्त इति । त्यको जीवनं प्राणनम् । पक्षे जलम् । यजति । अनुग्रहेऽपि लोलत्वं चाश्चल्यम् । पक्ष उच्छलद्वीचिकत्वम् । नोज्झति । प्रावृषा पद्माकरस्येव तडागस्येव मयास्य किं करणीयम् । एवं चोभयतोऽपि काठिन्यं ममेति ध्वन्यते॥ नायिकात्यन्तं त्वद्विरहक्षीणेति सखी नायकं वक्ति त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया। हंसीव ज्योत्सायां सा सुभग प्रत्यभिज्ञेया ॥२५१ ॥ त्वद्विरहेति । सा तन्वी त्वद्विरहापदि पाण्डुः केवलया छाययैव कान्त्यैव । पक्षे यथाश्रुतम् । ज्योत्स्नायां हंसीव । सुभग । यत एतादृश्यपि नायिका त्वद्विरहेण खिद्यत इति भावः । प्रत्यभिज्ञेया ज्ञातुं शक्या । एवं चातिक्षीणत्वमावेद्यते। अत्र केवलपदैवकारान्यतरदनर्थकमाभाति ॥ कथमितो गतेयमिति वादिनं नायक नायिकासखी वक्ति त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन । घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥ २५२ ॥ त्वयीति । हे सुभग । नायिकासक्तिमत्त्वादिति भावः । त्वयि विनिवेशितम्। बुद्धिपुरःसरं स्थापितमिति भावः । चित्तं यया । केवलशरीरेण गता । अत्र दृष्टान्तमाह-निबिडं यजालं तबुद्धमत्स्या जलमात्रेण गता नदीव । चेतसश्चाचल्यान्मत्स्यसाम्यम् । एवं च पुनरधुनैवायास्यतीति व्यज्यते ॥ त्वय्यासक्तिवशादत्यन्तदुःखभागिनी कामिनी संजातेति सखी नायकं वति त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् । मारुतचलमञ्चलमिव कण्टकसंपर्कतः स्फुटितम् ॥ २५३ ॥ त्वयीति । हे कठोरतर । कथमन्यथैतादृशमौदासीन्यं कृतवानिति भावः । त्वयि संसक्तम् । आसक्रिमदिति भावः । 'सं'पदेन निःसारणानहवं व्यज्यते । मदनचपलं तस्या हृदयं वायुचवलं कण्टकसंलममञ्चलमिव विदीर्णम् । मारुतच. लकण्टकसंपर्कार्यान्वययोग्यतावशादश्चलपदेन चेलाञ्चल एव प्रतीयते । अत्र
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy